Enter your Email Address to subscribe to our newsletters

रायपुरम्, १७ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्म-दिवसस्य अवसरे भारतीयजनता-पक्षस्य पक्षतः गुरुवासरे छत्तीसगढे ‘सेवा-सङ्कल्पाभियानस्य’ आरम्भः करिष्यते। प्रधानमन्त्रिणः मोदिनः सार्वजनिक-जीवनस्य पञ्चविंशतिवर्षाणां पूर्त्यवसरे अपि पक्षस्य पक्षतः विविधाः कार्यक्रमाः आयोजिताः भविष्यन्ति।
अभियानस्य अन्तर्गतम् भाजपापक्षतः ‘वडनगरतः काशीपर्यन्तम्’ यात्रा आयोजयिष्यते। यात्रा द्वाभ्यां चरणाभ्यां आयोजिता भविष्यति, यस्यां समग्रतः दश दलानि सम्मिलितानि भविष्यन्ति। प्रत्येकस्मिन् दले पञ्चाशत् युवकार्य-कर्तारः भविष्यन्ति। इयं यात्रा छत्तीसगढस्य अष्टादश जनपदेषु गमिष्यति।
यात्रायाः समये भाजपाकार्यकर्तारः विभिन्नेषु क्षेत्रेषु जनैः सह संवादं करिष्यन्ति। विशेषतः बस्तरे स्थानीयजनैः सह संवादे जनसम्पर्के च बलं प्रदास्यते। बस्तरप्रवासस्य समये अनेके कार्यक्रमाः आयोजिताः भविष्यन्ति इति अपि ज्ञातम्।
‘सेवासङ्कल्पाभियानस्य’ अन्तर्गतम् प्रदेशस्य विभिन्नेषु जनपदेषु सेवायाः, जनसम्पर्कस्य सामाजिकसरोकारस्य च सम्बद्धाः कार्यक्रमाः आयोजिताः भविष्यन्ति। पक्षस्य अनुसारम् एतासां गतिविधिनां माध्यमेन प्रधानमन्त्रिणः नरेन्द्रमोदिनः सार्वजनिकजीवनस्य पञ्चविंशतिवर्षाणि रेखाङ्कितानि भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan