Enter your Email Address to subscribe to our newsletters

रायपुरम्, २० सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः रविवासरे एकदिवसीय-ओडिशायात्रायां गमिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ९:५० वादने मुख्यमन्त्रिनिवासात् प्रस्थाय १०:१० वादने स्वामीविवेकानन्दविमानतलं प्राप्स्यति। ततः प्रातः १०:४० वादने विमानेन भुवनेश्वराय प्रस्थास्यति तथा ११:४५ वादने भुवनेश्वरं प्राप्स्यति।
भुवनेश्वरं प्राप्त्यानन्तरं मुख्यमन्त्री लिङ्गराजमन्दिरे दर्शनपूजनं करिष्यति। ततः पुरीं गत्वा भगवान् जगन्नाथस्य मन्दिरे दर्शनं करिष्यति। सायंकाले तस्य श्रीमद्भागवतकथास्थलं गन्तुं कार्यक्रमः अस्ति। रात्रौ पुरीनगरे एकस्मिन् निजी-होटल इत्यत्य विश्रामं करिष्यति।
यात्रायाः अवधौ मुख्यमन्त्रिणः विष्णुदेव-सायस्य ओडिशायाः मुख्यमन्त्रिणा मोहनचरणमाझिना सह सभा अपि प्रस्ताविता अस्ति। सभायां महानदी-जलविवादस्य समाधानसहितं द्वयोः राज्ययोः सम्बद्धेषु विविधेषु विषयेषु चर्चा सम्भाव्यते। मुख्यमन्त्री सोमवासरे मध्याह्ने प्रायः १:२५ वादने रायपुरं प्रत्यागमिष्यति।
Hindusthan Samachar / Divya Ranjan