एसआईआर-अभियाने मुख्यमन्त्री रेखा गुप्ता, पूर्वमुख्यमन्त्री अरविन्द केजरीवालः इत्येताभ्यां सह ३१,६३,९३० जनानां कृते सूचनाः
नवदिल्ली, २० सेप्टेम्बरमासः (हि.स.)। दिल्ली-विशेषगहनपुनरीक्षणस्य समये मुख्यमन्त्री रेखा गुप्ता, पूर्वमुख्यमन्त्री अरविन्दकेजरीवालः इत्येतायां सह ३१,६३,९३० मतदातृभ्यः सूचनाः प्रेषिताः सन्ति। उल्लेखनीयं यत् एसआईआर-अभियानस्य अनन्तरं मतदातृसूच्याः ४७,
ईआरओ का नोट


नवदिल्ली, २० सेप्टेम्बरमासः (हि.स.)। दिल्ली-विशेषगहनपुनरीक्षणस्य समये मुख्यमन्त्री रेखा गुप्ता, पूर्वमुख्यमन्त्री अरविन्दकेजरीवालः इत्येतायां सह ३१,६३,९३० मतदातृभ्यः सूचनाः प्रेषिताः सन्ति।

उल्लेखनीयं यत् एसआईआर-अभियानस्य अनन्तरं मतदातृसूच्याः ४७,५६,७२२ नामानि निष्कासितानि आसन्। अधुना तेषां सम्बन्धे सूचनाः प्रेष्यन्ते। एतदर्थं दिल्ली-निर्वाचनायोगेन विशेषशिबिराणि आयोजितानि सन्ति।

आयोगेन मुख्यमन्त्री-रेखागुप्तायै एसी-१४ शालीमारबागस्य मतदात्र्यै प्रदत्तां सूचनां प्रति स्थितिः स्पष्टा। एसआईआर-प्रक्रियायां तस्याः नाम विसङ्गतिः अथवा ‘नो-मैपिङ्ग्’ इति सूच्यां प्राप्तम् आसीत्, अतः तस्यै सूचना प्रेषिता। किन्तु तथ्येषु कर्गदेषु च सत्यापितेषु निर्वाचक-पञ्जीकरणाधिकारिणा तस्याः प्रविष्टिः वैधीकृता।

शालीमारबाग-कार्यालयस्य निर्वाचक-पञ्जीकरणाधिकारिणा अद्य एकं स्पष्टीकरणं प्रदत्तं यत् एषा एसआईआर-अन्तर्गतं सामान्यप्रक्रिया अस्ति। येषां मतदातॄणां गणनाप्रपत्राणि अन्तिमगहन-पुनरीक्षणस्य मतदातृसूच्या सह सम्बद्धानि न भवितुं शक्नुवन्ति, तेभ्यः निर्वाचनायोगस्य निर्देशानुसारं सूचनाः सम्प्रेष्य तयानां सत्यापनं क्रियते। प्रक्रियायाः अन्तर्गतं मतदानकेन्द्र-स्तरीयाधिकारिणा क्षेत्रसत्यापनमपि कृतम्। तथ्येषु दस्तावेजेषु च सत्यापितेषु ईआरओ इत्यनेन तस्याः प्रविष्टिः वैधीकृता। तस्याः नाम ४ नवम्बर २०२६ दिनाङ्के प्रकाशितायां एसी-१४ अन्तिममतदा एसआईआर-अभियाने मुख्यमन्त्री रेखा गुप्ता, पूर्वमुख्यमन्त्री अरविन्दकेजरीवालः इत्येताभ्यां सह ३१,६३,९३० जनानां कृते सूचनाः

एवमेव दिल्ली इत्यस्य पूर्वमुख्यमन्त्रिण: अरविन्दकेजरीवालस्य तस्य परिवारस्य च कृते सूचनाप्रेषणस्य वार्तायाः विषये विधानसभा-क्षेत्रस्य ४० (नवदिल्ली) निर्वाचक-पञ्जीकरणाधिकारिणा प्रेस-विज्ञप्तिः प्रकाशिता।

प्रेस-विज्ञप्त्यनुसारं एसआईआर-प्रक्रियायां अरविन्दकेजरीवालस्य तस्य परिवारस्य सदस्याः च, ये एसी-४० नवदिल्लीक्षेत्रे मतदातारः इति पञ्जीकृताः सन्ति, ‘नो-मैपिङ्ग्’ इति सूच्यां प्राप्ताः। एष: परिचय: तैः समर्पितस्य गणनाप्रपत्रस्य विवरणस्य आधारेण कृता।

प्रेस-विज्ञप्तौ उक्तं यत् केजरीवालस्य तस्य परिवारस्य सदस्यैः समर्पितेषु गणनाप्रपत्रेषु अन्तिमपुनरीक्षणस्य मतदातृसूच्या सह सम्बन्धस्थापनाय आवश्यकं पूर्णं विवरणं नासीत्। अतः तेषां प्रविष्टीनां सत्यापनाय सूचना प्रेषिता अस्ति।

दिल्ली इत्यस्य मुख्यनिर्वाचनाधिकारिणा शनिवासरे पत्रकारसम्मेलने उक्तं यत् अन्तिमपुनरीक्षणस्य मतदातृसूच्यां नाम समावेशयितुं कथनानां आपत्तीनां च सम्बन्धे विशेषशिबिराणि २० तथा २७ सेप्टेम्बरदिनाङ्कयोः राष्ट्रिय-राजधानी-क्षेत्र-दिल्ली इत्यस्य सर्वेषु मतदानकेन्द्र-स्थलेषु प्रातः १० वादनतः सायं ५ वादनपर्यन्तम् आयोजितानि भविष्यन्ति। एसआईआर-प्रक्रियायाः दावाः आपत्तयश्च समर्पयितुं अन्तिमदिनाङ्कः ३० सेप्टेम्बरमासे अस्ति तथा अन्तिम-मतदातृसूची ४ नवम्बरमासे २०२६ तमे वर्षे प्रकाशयिष्यते। मतदातृसूच्यां समावेशयिष्यते।

Hindusthan Samachar / Divya Ranjan