मध्यप्रदेशे मुख्यमन्त्री अद्य बोत्सवानादेशात् आगतां मादा-चीतां गान्धीसागरस्य वनेषु विमोचयिष्यति
– कूनो-राष्ट्रीयोद्यानस्य भारतीय-परिस्थितीनां सहजतया स्वीकरणानन्तरं सीसीबी२ इदानीं गान्धीसागरे धाविष्यति भोपालम्, २० सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशे प्रधानमन्त्रिणः नरेन्द्रमोदिनः “प्रोजेक्ट-चीता” इति परियोजना मुख्यमन्त्रिणः डॉ. मोहनयादवस्य ने
बोत्सवाना से आई मादा चीता


– कूनो-राष्ट्रीयोद्यानस्य भारतीय-परिस्थितीनां सहजतया स्वीकरणानन्तरं सीसीबी२ इदानीं गान्धीसागरे धाविष्यति

भोपालम्, २० सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशे प्रधानमन्त्रिणः नरेन्द्रमोदिनः “प्रोजेक्ट-चीता” इति परियोजना मुख्यमन्त्रिणः डॉ. मोहनयादवस्य नेतृत्वे निरन्तरं वर्धते। मुख्यमन्त्री डॉ. यादवः अद्य रविवासरे बोत्सवानादेशात् भारतम् आनीतां मादा-चीतां सीसीबी२ इत्याख्यां गान्धीसागर-अभयारण्यस्य वनेषु विमोचयिष्यति।

जनसम्पर्काधिकारी घनश्यामसिरसामः अवदत् यत् नूतनायाः मादा-चीतायाः गान्धीसागरम् आगमनेन अभयारण्ये द्वौ नर-चीतापशू द्वे च मादा-चीते इत्येतै: सह चत्वारः चीतापशव: भविष्यन्ति। अनेन गान्धीसागरे चीता-संरक्षणस्य पुनर्स्थापनायाश्च प्रयासानां विस्ताराय साहाय्यं भविष्यति।

सः अवदत् यत् सीसीबी२ इत्यस्य एषा यात्रा “प्रोजेक्ट-चीता” इति परियोजनायाः निरन्तरविस्तारस्य भारतदेशे च चीतानां परम्परायाः संरक्षणस्य कथा अस्ति। बोत्सवानादेशात् भारतं, ततः कूनोतः गान्धीसागरम् इति तस्याः यात्रा नूतनस्य वन्यपारिस्थितिकतन्त्रस्य चीता-संरक्षणस्य नूतनाध्यायस्य आरम्भं करिष्यति।

जनसम्पर्काधिकारिणः अनुसारं गान्धीसागर-अभयारण्ये सम्प्रति प्रभाषः, पावकः, धीरा च इति त्रयः चीताः सन्ति। मादा-चीता सीसीबी२ बोत्सवानादेशस्य घान्जीतः २८ फरवरी २०२६ तमे वर्षे भारतस्य श्योपुरजनपदे स्थिते कूनो-राष्ट्रिय-उद्याने आनीता आसीत्। मादा-चीता सीसीबी२ भारतस्य चीतानां नूतनवंशस्य आशारूपेण आगता अस्ति।

सङ्गरोधकालस्य पूर्णतायाः अनन्तरं सीसीबी२ मे-मासे २०२६ तमे वर्षे कूनो इत्यस्य वनेषु स्वच्छन्दविहाराय विमोचिता आसीत्। सा भारतीयपरिस्थितीनां सहजतया शीघ्रतया च अनुकूलनं कृतवती। स्थानीयवनपरिदृश्येन सह सामञ्जस्यं स्थापयित्वा सा कूनो इत्यस्य पारिस्थितिकतन्त्रे स्वयम् अनुकूलितवती। अधुना तां कूनो-राष्ट्रिय-उद्यानात् गान्धी-सागर-अभयारण्यं प्रति स्थानान्तरयिष्यते, यत्र सा अन्यैः त्रिभिः चीतापशुभि: सह निवत्स्यति।

बोत्सवानादेशात् कूनोपर्यन्तं, ततः कूनोतः गान्धीसागरपर्यन्तं सीसीबी२ इत्यस्य यात्रा एकस्मात् वन्यपारिस्थितिकतन्त्रात् अपरं वन्यपारिस्थितिकतन्त्रं प्रति स्थानान्तरणेन सह चीता-संरक्षणस्य निरन्तरतायाः नूतनारम्भं सूचयति।

Hindusthan Samachar / Divya Ranjan