एसआई-नियुक्तिपरीक्षा - अजमेरेण सह ११ जनपदेषु दृढसुरक्षायां २,१८,१३१ अभ्यर्थिनः परीक्षां ददति
जयपुरम्, २० सेप्टेम्बरमासः (हि.स.)। प्रश्नपत्रस्य प्रसारणस्य कारणेन निरस्ता २०२१ तमवर्षस्य उपनिरीक्षकस्य नियुक्तिपरीक्षा रविवासरे राजस्थानस्य ११ जनपदेषु पुनः आयोज्यते। परीक्षां प्रति प्रातःकालादेव परीक्षाकेन्द्रेषु दृढा सुरक्षा कठोरं च परीक्षणव्यवस
जांच


जयपुरम्, २० सेप्टेम्बरमासः (हि.स.)। प्रश्नपत्रस्य प्रसारणस्य कारणेन निरस्ता २०२१ तमवर्षस्य उपनिरीक्षकस्य नियुक्तिपरीक्षा रविवासरे राजस्थानस्य ११ जनपदेषु पुनः आयोज्यते। परीक्षां प्रति प्रातःकालादेव परीक्षाकेन्द्रेषु दृढा सुरक्षा कठोरं च परीक्षणव्यवस्थां दृष्टिगोचरं जातम्। प्रातः ८ वादनतः अभ्यर्थिनः परीक्षाकेन्द्रेषु प्रवेष्टुम् आरब्धवन्तः।

अजमेरस्य सावित्री-विद्यालयेन सह अनेकेषु केन्द्रेषु अभ्यर्थिनां धातुशोधक-यन्त्रेण परीक्षणं कृतम् तथा निषिद्ध-सामग्रीविषये विशेषसतर्कता पालिता। अजमेरस्य सावित्री-विद्यालयकेन्द्रे महिला-अभ्यर्थिनां कङ्कणानि अपसार्य परीक्षणं कृतम्। तेषां हस्तेषु कण्ठे च बद्धानि सूत्राणि अपि अपसारितानि। केषाञ्चित् अभ्यर्थिनाम् उपनेत्राणाम् अपि धातुशोधकयन्त्रेण परीक्षणं कृतम्। अन्येषु केन्द्रेषु अपि अभ्यर्थिनां वस्त्राणां सामग्रीणां च सूक्ष्मपरीक्षणानन्तरमेव प्रवेशः प्रदत्तः। राज्यस्य ११ जनपदेषु परीक्षायै ६६६ परीक्षाकेन्द्राणि निर्मितानि सन्ति। एतेषु जयपुरे सर्वाधिकानि १८७ केन्द्राणि सन्ति, यदा तु अजमेरम् उदयपुरम् सहितेषु अन्येषु जनपदेषु अपि बहुसंख्यकानि केन्द्राणि निर्मितानि सन्ति।

परीक्षायां २,१८,१३१ अभ्यर्थिनः सम्मिलिताः सन्ति। परीक्षा द्वयोः पर्याययोः आयोजिता भविष्यति। प्रथमपाल्यां सामान्यहिन्दी-विषयस्य प्रश्नपत्रं प्रातः १० वादनतः मध्याह्न १२ वादनपर्यन्तं भविष्यति। अस्य कृते अभ्यर्थिनः प्रातः ९ वादनपर्यन्तं केन्द्रेषु प्रवेष्टुं शक्नुवन्ति। द्वितीयपर्याये सामान्यज्ञानस्य सामान्यविज्ञानस्य च परीक्षा अपराह्णे ३ वादनतः भविष्यति, यस्य कृते अपराह्णे १ वादनतः २ वादनपर्यन्तं प्रवेशः प्रदास्यते। अस्मिन् समये परीक्षाव्यवस्थायां महत्त्वपूर्णं परिवर्तनं कृतम् अस्ति। ओएमआर-उत्तरपत्रिकायां पञ्चमविकल्पस्य अर्थात् ‘अनुत्तरितप्रश्नस्य’ पूरणम् अनिवार्यं कृतम् अस्ति।

यदि अभ्यर्थी कस्यचित् प्रश्नस्य उत्तरं न दातुम् इच्छति, तर्हि तेन पञ्चमं वृत्तं पूरणीयम्। अस्य प्रक्रियायै प्रत्येकं प्रश्नपत्रे १० निमेषाणां अतिरिक्तसमयः प्रदास्यते। राजस्थानलोकसेवायोगेन अस्य सम्बन्धे शुद्धिपत्रमपि प्रकाशितम् अस्ति। परीक्षायाः पारदर्शितां संरक्षितुं अस्मिन् वर्षे परिचयस्य सत्यापनाय बहुस्तरीयव्यवस्था कृता अस्ति। परीक्षाकेन्द्रेषु अभ्यर्थिनां मुखमेलनं मुखपरिचय-प्रौद्योगिक्या क्रियते।

तदनन्तरम् अङ्गुलिचिह्नस्य जैविक-परिचयस्य च सत्यापनमपि भविष्यति। प्रवेशसमये हस्तधारितधातु-शोधकयन्त्रेण परीक्षणं क्रियते। ब्लूटूथ-यन्त्राणां, स्मार्टचश्मानां अन्येषां च आधुनिकानाम् इलेक्ट्रॉनिक-यन्त्राणां विषये विशेषदृष्टिः स्थापिता अस्ति। परीक्षाकेन्द्रेषु आरक्षक-बलस्य प्रशासनस्य च निरीक्षणेन सह दृश्याङ्कनस्य व्यवस्था अपि कृता अस्ति। निषिद्धाभ्यर्थिनां छद्माभ्यर्थिनां च माध्यमेन परीक्षायां अनियमिततां निवारयितुं परीक्षणप्रक्रिया अत्यन्तं कठिना कृता अस्ति। प्रश्नपत्रस्य प्रसारणानन्तरं पुनरायोज्यमानायां अस्यां परीक्षायां प्रशासनस्य प्रमुखं दायित्वं निष्पक्षतया पारदर्शितया च परीक्षायाः सम्पादनम् अस्ति।

Hindusthan Samachar / Divya Ranjan