आरएसएसस्य वरिष्ठप्रचारकस्य वासुदेवपालस्य निधनं प्रति मुख्यमन्त्री शुभेन्दु-अधिकारीणः शोकः
कोलकाता, २० सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी राष्ट्रियस्वयंसेवकसङ्घस्य वरिष्ठप्रचारकस्य वासुदेवपालस्य निधनं प्रति गहनं शोकं प्रकटितवान्। मुख्यमन्त्री रविवासरे प्रातः दशवादने सामाजिकमाध्यमे सन्देशं प्रकाश्य दिवङ्गत
मुख्यमंत्री द्वारा प्रचारक वासुदेव पाल को श्रद्धांजलि


कोलकाता, २० सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी राष्ट्रियस्वयंसेवकसङ्घस्य वरिष्ठप्रचारकस्य वासुदेवपालस्य निधनं प्रति गहनं शोकं प्रकटितवान्। मुख्यमन्त्री रविवासरे प्रातः दशवादने सामाजिकमाध्यमे सन्देशं प्रकाश्य दिवङ्गताय वासुदेवपालाय श्रद्धाञ्जलिं समर्पितवान् तथा तस्य परिवारस्य, स्वजनान् मित्राणि च प्रति संवेदनां प्रकटितवान्।

शुभेन्दु-अधिकारी अवदत् यत् वर्ष १९८० तः चतुर्दशकाधिककालपर्यन्तं वासुदेवपालः प्रचारकरूपेण स्वयम् सङ्घकार्याय पूर्णतया समर्पितवान्। पश्चिमबङ्गस्य असमस्य च विभिन्नेषु क्षेत्रेषु दायित्वं निर्वहन् सः उत्तरबङ्गप्रान्तस्य प्रचारप्रमुखरूपेण प्रान्तकार्यकारिण्याः सदस्यरूपेण च महत्त्वपूर्णां भूमिकां निर्वुढवान्।

मुख्यमन्त्री अवदत् यत् सङ्घस्य वैचारिकेषु प्रकाशनकार्येषु च वासुदेवपालस्य महत्त्वपूर्णं योगदानम् आसीत्। सङ्घकार्ये तस्य निःस्वार्थसमर्पणं, निष्ठा, त्यागः आदर्शेषु च प्रतिबद्धता दीर्घकालपर्यन्तं स्वयंसेवकेभ्यः प्रेरणां प्रदास्यति।

उल्लेखनीयं यत् सङ्घस्य वरिष्ठप्रचारकस्य वासुदेवपालस्य शनिवासरे, १९ सेप्टेम्बर्-दिनाङ्के, सायं पञ्चवादने दशमिनिटे कोलकातानगरस्य मारवाडी रिलीफ सोसाइटी चिकित्सालये निधनम् अभवत्। सः ६६ वर्षीयः आसीत्। तस्य निधनात् सङ्घस्य कार्यकर्तृषु स्वयंसेवकेषु च शोकः व्याप्तः अस्ति।

मुख्यमन्त्री शुभेन्दु-अधिकारी परमपितरं परमेश्वरं प्रार्थितवान् यत् दिवङ्गतस्य वासुदेवपालस्य आत्मनः चिरशान्तिः भवतु। सः शोकसन्तप्तस्य परिवारस्य सर्वेषां स्वजनानां च अस्मिन् कठिनसमये दुःखं सोढुं शक्तिं प्रदातुं प्रार्थितवान्।

Hindusthan Samachar / Divya Ranjan