Enter your Email Address to subscribe to our newsletters

कोलकाता, २० सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी रविवासरे प्रातः सामाजिक-माध्यमे सन्देशं प्रकाश्य भाजपायाः पूर्वप्रदेशाध्यक्षाय पूर्वकेन्द्रीय-मन्त्रिणे च दिवङ्गताय तपनसिकदराय तस्य जयन्त्यवसरे श्रद्धाञ्जलिं समर्पितवान्। शुभेन्दु-अधिकारी स्वसन्देशे लिखितवान्— “पश्चिमबङ्गभाजपायाः पूर्वप्रदेशाध्यक्षाय पूर्वकेन्द्रीयमन्त्रिणे च दिवङ्गताय श्रीतपनसिकदराय जन्मदिवसस्य अवसरे विनम्रा श्रद्धाञ्जलिः।”
तपनसिकदरस्य जन्म २० सेप्टेम्बरमासे १९४४ तमे वर्षे अभवत्। पश्चिमबङ्गे भाजपायाः प्रारम्भिकसङ्गठनविस्तारे महत्त्वपूर्णां भूमिकां निर्वहद्भिः नेतृभिः सह तपनसिकदरः अपि प्रमुखेषु नेतृषु अन्यतमः आसीत्। सः १९९१ तः १९९५ पर्यन्तं तथा पुनः १९९७ तः १९९९ पर्यन्तं द्विवारं पश्चिमबङ्गभाजपायाः प्रदेशाध्यक्षपदं धारितवान्। वामपन्थिराजनैतिकप्रभावस्य काले सः राज्ये दलस्य सङ्गठनं सुदृढं कर्तुं जनस्तरे कार्यं कृतवान्।
१९९८ तमे वर्षे सः दमदमलोकसभाक्षेत्रात् निर्वाचनं जित्वा पश्चिमबङ्गतः भाजपायाः प्रथमः लोकसभासदस्यः भवितुं गौरवं प्राप्तवान्। १९९९ तमे वर्षे अपि सः तस्मादेव क्षेत्रात् पुनः विजयम् अवाप्तवान्। ततः अटलबिहारीवाजपेयी-महोदयस्य नेतृत्वे केन्द्रसर्वकारे १९९९ तः २००४ पर्यन्तं सः सञ्चारविभागस्य तथा पश्चात् रसायन-उर्वरकमन्त्रालयस्य राज्यमन्त्रिरूपेण दायित्वं निर्वुढवान्।
तपनसिकदरः तस्य सङ्गठनात्मक-कार्याय, प्रभावशालिवक्तृत्वाय जन-सम्पर्काय च स्मर्यते। भाजपानुसारं, १९९०-दशके पश्चिमबङ्गे दलस्य सङ्गठना-त्मकाधारं राजनैतिकोपस्थितिं च सुदृढीकर्तुं तस्य महत्त्वपूर्णं योगदानम् आसीत्। २०१४ तमे वर्षे २ जून-दिनाङ्के ६९ वर्षस्य वयसि तस्य निधनम् अभवत्।
Hindusthan Samachar / Divya Ranjan