Enter your Email Address to subscribe to our newsletters



धमतरी, २० सेप्टेम्बरमासः (हि.स.)। गणेशोत्सवस्य भक्तिभावस्य उल्लासस्य च मध्ये आमापाराचौके अस्मिन् वर्षे श्रद्धालवः वृन्दावनधाम्न: दिव्यानुभवं प्राप्नुवन्ति। अत्र समितेः परम्परां निर्वहता अस्मिन् वर्षे वृन्दावनस्य मनोरमं दृश्यं निर्मितम् अस्ति, यस्य दर्शनार्थं नगरात् एव न, अपि तु दूरदूरस्थेभ्यः अपि श्रद्धालवः आगच्छन्ति।
बालकलामन्दिर-गणेशोत्सवसमित्या विगतेभ्यः ६८ वर्षेभ्यः स्वनिर्मितानां भव्यप्रदर्शिनीनां परम्परां प्रवर्धयता गणेशोत्सव-२०२६ मध्ये ‘श्रीवृन्दावनधाम’ इति मनोरमं दृश्यं निर्मितम् अस्ति। प्रदर्शिन्याम् बांकेबिहारीलालः, राधारमणः, राधावल्लभः, गोपेश्वरमहादेवः, लड्डूगोपालः, हरिविठ्ठलः, कालीदेहः, निधिवनं पूज्य-प्रेमानन्दमहाराजस्य दिव्यस्वरूपं च श्रद्धालुभ्यः दर्श्यते। प्रदर्शिन्या: भव्यसज्जा धार्मिकं वातावरणं च श्रद्धालूनां आकर्षणस्य केन्द्रं वर्तते।
समित्याः प्रमुखौ बिशेषरपटेलः प्रकाशशर्मा च कथयतः यत् वर्षेभ्यः प्रचलितायाः अस्याः परम्परायाः उद्देश्यम् अस्ति तेषां जनानां कृते धार्मिकस्थलानां दर्शनस्य अवसरं प्रदातुं, ये आर्थिक-सामाजिक-अन्यकारणैः तीर्थयात्रां कर्तुं न शक्नुवन्ति। समितेः दिलीपपटेलः अवदत् यत् प्रदर्शिनीनां माध्यमेन नगरस्य समीपस्थक्षेत्राणां च जनानां कृते प्रमुखधार्मिकस्थलानाम् अनुभवं प्रदातुं प्रयासः क्रियते।
प्रदर्शिनीनिर्माणसहितस्य आयोजनस्य व्यवस्थासु देवेन्द्रयादवपिङ्की, लक्ष्मी-नारायणनागः, विजयपटेलः, दिलीपपटेलः, प्रह्लादपटेलः, सूरजशर्मा, रविशर्मा, गोलूयादवः, राजूचौबे, गोपालपटेलः, लखनपटेलः, अमरजसवानी, प्रमोदपटेलः, पूरननागः, पङ्कजनागः, मानवयादवः, बब्बूराजवानी, मुकेशकोसरिया, देवेन्द्र-धीमरः, जिगरआहूजा इत्येतेषां सहितं वार्डवासिनां विशेषं योगदानम् अस्ति। समित्या धमतरीवासिभ्यः अधिकाधिक-सङ्ख्यया आगत्य श्रीवृन्दावनधामस्य प्रदर्शिन्या: दर्शनं कर्तुं आग्रहः कृतः।
अद्यावधि निर्मिताः प्रमुखस्थलानां बह्व्यः प्रदर्शिन्य:
समित्याः प्रमुखौ बिशेषरपटेलः प्रकाशशर्मा च अवदताम् यत् बालकलामन्दिरस्य परिचयः समित्या निर्मिताभिः भव्य-प्रदर्शिनीभिः एव निर्मितः अस्ति। समित्या पूर्वम् अमरनाथधाम, केदारनाथधाम, बद्रीनाथधाम, रामेश्वरधाम, अयोध्याधाम तथा श्रीश्यामखाटूधाम इत्यादीनां विभिन्नानां प्रमुखतीर्थस्थलानां प्रदर्शिन्य: निर्मिताः सन्ति।
Hindusthan Samachar / Divya Ranjan