Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० सेप्टेम्बरमासः (हि.स.)। जलवायुपरिवर्तनेन उत्पन्नानां समस्यानां मध्ये जलसुरक्षां जलप्रबन्धनं च अधिकं सक्षमं कर्तुं केन्द्रितः नवमः भारत-अन्तर्राष्ट्रीय-जलसप्ताहः मङ्गलवासरे २२ सेप्टेम्बर-दिनाङ्कात् प्रारभ्यते। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् २२ सेप्टेम्बर-दिनाङ्के अस्य उद्घाटनं करिष्यति। पञ्चदिवसीये अस्मिन् आयोजने जलवाय्वनुकूलजलप्रबन्धनम्, जलसंसाधनानां स्थायिप्रयोगः, प्रौद्योगिकी, वित्तपोषणं सामुदायिकसहभागिता च इत्येतैः माध्यमैः जलसुरक्षां सुदृढां कर्तुं विचारविमर्शः भविष्यति।
केन्द्रीयजलशक्तिमन्त्रालयस्य तत्त्वावधाने केन्द्रीयमन्त्रालयानां, राज्यसर्वकाराणां, अन्ताराष्ट्रियसङ्गठनानां, अनुसन्धान-शैक्षणिकसंस्थानां, उद्योगसङ्गठनानां, विकाससहयोगिनां, नागरिकसमाजस्य निजीक्षेत्रस्य च सहयोगेन २२ तः २६ सेप्टेम्बर-दिनाङ्कपर्यन्तं भारतमण्डपे अस्य आयोजनं क्रियते। अस्मिन् अवसरे केन्द्रीयजलशक्तिमन्त्री अन्ये च गणमान्याः जनाः उपस्थिताः भविष्यन्ति।
अस्मिन् वर्षे भारत-अन्ताराष्ट्रिय-जलसप्ताहस्य विषयः “जलवाय्वनुकूल-जलप्रबन्धनम्” इति निर्धारितः अस्ति। आयोजने नीतिनिर्मातृभ्यः, वैश्विकजल-क्षेत्रस्य विशेषज्ञेभ्यः, अनुसन्धानकर्तृभ्यः, जल-प्रबन्धनसम्बद्धेभ्यः व्यावसायिकेभ्यः, उद्योगप्रतिनिधिभ्यः, नागरिकसमाजाय, नवोद्यमेभ्यः युवभ्यश्च संवादाय अनुभवविनिमयाय च मञ्चः प्राप्स्यते।
नीदरलैण्ड्-जर्मनीदेशौ आयोजनस्य सहभागिदेशौ भविष्यतः। एताभ्यां सह भारतस्य १४ राज्याणि सहभागिराज्यरूपेण भागं गृह्णन्ति। षट् केन्द्रीयमन्त्रालयाः विभागाश्च सहभागिमन्त्रालय-विभागरूपेण समाविष्टाः सन्ति। अनेन जलवाय्वनुकूल-जलप्रबन्धनाय केन्द्रस्य राज्यैः सह सहयोगस्य तथा विभिन्नक्षेत्राणां मध्ये समन्वयस्य च प्रोत्साहने बलं प्रदास्यते।
आयोजनस्य अवधौ १० प्रमुखेषु मञ्चेषु चर्चा भविष्यति। एतेषु मन्त्रिस्तरीयं पूर्णसत्रं, वैश्विकजलनेतॄणां पूर्णसत्रम्, देशविशेष-मञ्चः, जलनेतॄणां मञ्चः, जलक्षेत्रस्य व्यावसायिकानां मञ्चः, विषयाधारितमञ्चः, नवोद्यममञ्चः, युवामञ्चः, औद्योगिकमञ्चः तथा विभिन्नाः सहकार्यकार्यक्रमाः अन्तर्भवन्ति।
चर्चायै सप्त प्रमुखाः उपविषयाः निर्धारिताः सन्ति। तेषु समावेशी समानं च जलशासनम्, जलसंसाधनानां श्रेष्ठोप-योगाय सहयोगः, जलसुरक्षायै प्रौद्योगिक्याः समुदायस्य च भूमिका, जलसम्बद्धाः जलवायुसम्बद्धाश्च समस्या:, जलमूलभूत-संरचनायै नवीनवित्तीय-प्रतिमानानि आधुनिकीकरणं च, स्थायिजलसंसाधन-प्रबन्धनम् तथा जनानां पर्यावरणस्य च कृते जलम् इत्येते विषयाः सन्ति।
२२ तः २५ सेप्टेम्बर-दिनाङ्कपर्यन्तं चतुर्दिवसीया अन्ताराष्ट्रियप्रदर्शिनी अपि आयोजयिष्यते। अस्मिन् स्थायिजल-प्रबन्धने जलवाय्वनुकूलजल-प्रबन्धने च सम्बद्धानां नवीनप्रौद्योगिकीनां, उत्पादानां समाधानानां च प्रदर्शनं भविष्यति।
एतदवधौ पेयजलस्वच्छताविभागस्य तत्त्वावधाने २२ तः २४ सेप्टेम्बर-दिनाङ्कपर्यन्तं द्वितीयः अन्ताराष्ट्रिय-वॉश-सम्मेलनः अपि आयोजयिष्यते। अस्मिन् पेयजलस्य उपलब्धता, स्वच्छता-संरचना, स्वच्छतासम्बद्धः व्यवहारः जनस्वास्थ्यसम्बद्धाश्च विषयाः चर्चिष्यन्ते। सम्मेलने बृहद्स्तरे कार्यान्वयितुं शक्याः, न्यूनतायुक्ताः स्थायिनश्च समाधानाः इत्येतेषु विषये बलं प्रदास्यते।
आयोजनस्य उद्देश्यम् अस्ति यत् चर्चाः केवलं विचारविमर्शपर्यन्तं सीमिताः न भवन्तु, अपि तु ताः कार्यान्वयितुं शक्येषु विचारेषु, सहयोगेषु, बृहद्स्तरे स्वी-करणीयेषु समाधानेषु च परिणमन्तु। अस्य अन्तर्गतं नीतिं, वित्तं, प्रौद्योगिकीं सामुदायिकसहभागितां च समेक्य जलसुरक्षां जलवाय्वनुकूलतां च सुदृढां कर्तुं बलं प्रदास्यते।
समापनसत्रं २५ सेप्टेम्बर-दिनाङ्के भविष्यति। ततः २६ सेप्टेम्बर-दिनाङ्के अध्ययनभ्रमणानि आयोजयिष्यन्ते। भारत-अन्ताराष्ट्रिय-जलसप्ताहः जलक्षेत्रे भारतस्य विश्वस्य च विभिन्नहितधारकाणां मध्ये अनुभवविनिमयाय, नवीन-प्रौद्योगिकीनां प्रस्तुत्यै सहयोगवर्धनाय च महत्त्वपूर्णमञ्चरूपेण विकसितः अस्ति।
Hindusthan Samachar / Divya Ranjan