Enter your Email Address to subscribe to our newsletters

कोकराझारम् (असमः), २० सेप्टेम्बरमासः (हि.स.)।फकीराग्रामस्वर्णशाखासाहित्यसभायाः फकीराग्रामकलासंस्कृतिविकासमञ्चस्य च संयुक्ततत्त्वावधाने शनिवासरे रात्रौ फकीराग्रामशहीदवेदीपरिसरे श्रद्धया सांस्कृतिककार्यक्रमैश्च सह जूबिनदिवसः आचरितः। सायं पञ्चवादनतः आयोजिते कार्यक्रमे प्रख्यातकलाकारस्य जूबिन-गर्गस्य चित्रस्य समक्षं दीपप्रज्वालनं माल्यार्पणं च कृत्वा तस्मै श्रद्धाञ्जलिः समर्पिता।
कार्यक्रमस्य अन्तर्गतं शक्त्याश्रम-उच्चतरमाध्यमिक-तान्त्रिकविद्यालयस्य भूगोलविभागस्य पूर्वविषयशिक्षकः मुनीनशर्मा जूबिनगर्गस्य चित्रस्य समक्षं दीपं प्रज्वालितवान्। फकीराग्राम-गर्ल्स-मिडिल-इंग्लिश-स्कूलस्य पूर्वप्रधानाध्यापिका अनिमादेवी माल्यार्पणं कृतवती। अस्मिन् अवसरे फकीराग्राम-उच्चतरमाध्यमिकविद्यालयस्य शिक्षिका नीलिमारायः तथा कोकराझार-जनपदसाहित्यसभायाः आकाशोपसमित्याः संयोजिका शिलापालः कार्यक्रमे सहयोगं प्रदत्तवत्यौ।
श्रद्धाञ्जलिकार्यक्रमस्य शुभारम्भं फकीराग्रामव्यापारिसमितेः पूर्वपदाधिकारिभिः विनोद-अग्रवालेन, हरिप्रसादशर्मणा बिप्लवसर्वकारेण च कृतम्। ततः शहीदवेदीपरिसरे जूबिनगर्गस्य स्मृतौ दीपप्रज्वालनं कृत्वा ‘पोहरेरे चाकिगछी’ इति कार्यक्रमः आयोजितः। अस्मिन् फकीराग्रामाञ्चलिक-छात्रसंस्थायाः महासचिवः दीपूजीत-नारायणदेवः, अखिलअसमछात्रसंस्थायाः पूर्वकेन्द्रीयकार्यकारिणीसदस्यः तथा कोकराझारजनपदसाहित्यसभायाः अध्यक्षः नजमुलहकः, जनपदसाहित्यसभायाः पूर्वाध्यक्षः खनिनचन्द्ररायः तथा पूर्वसचिवः कृष्णचन्द्रनाथः इत्यादयः जनाः सहभागं कृतवन्तः।
कार्यक्रमे जूबिनगर्गस्य लोकप्रियगीतानां प्रस्तुतिकरणं सङ्गीतमयसंवादश्च आयोजितौ। फकीराग्राममहाविद्यालयस्य सहायकप्राध्यापिका स्मितादेवी, फकीराग्रामरेलस्थानकस्य सहायक-स्थानकप्रबन्धकः दीपकनाथः, मानसीदासः सहिताः अनेकाः कलाकाराः जूबिनगर्गस्य गीतानि प्रस्तुतवन्तः। कार्यक्रमे बहुसंख्यकाः स्थानीयकलाकाराः सङ्गीतप्रेमिणश्च सहभागं कृतवन्तः।
अस्मिन् अवसरे फकीराग्रामकला-संस्कृतिविकासमञ्चेन सम्बद्धस्य विभिन्नासु सामाजिकगतिविधिषु च सक्रियस्य रमेनरायस्य निधनं प्रतिमपि श्रद्धाञ्जलिः समर्पिता। उपस्थितैः जनैः तस्य आकस्मिकनिधने शोकः प्रकटितः तथा दिवङ्गतात्मनः शान्तेः कामना कृता।
कार्यक्रमे ७ क्रमाङ्कस्य फकीराग्रामस्य बीटीसी-निर्वाचनक्षेत्रस्य पार्षदः एजामु-लहकः, धुबड़ी-गर्ल्स-महा-विद्यालयस्य प्राचार्यः डॉ. मनोरञ्जनरायः, फकीराग्राम-महाविद्यालयस्य सहप्राध्यापकौ डॉ. आदित्यचन्द्रडेकाः डॉ. अनवारुलइस्लामश्च, असमसाहित्यसभायाः केन्द्रीयकार्य-कारिणीसदस्यौ रूपजीतदासः प्रशान्त-देवशर्मा च, कोकराझारजनपद-साहित्य-सभायाः सचिवः शरत्डेकाः, सहसचिवौ दीपकनाथः दीपाङ्कररायश्च सहिताः साहित्यशिक्षाकलासंस्कृति-सामाजिकक्षेत्रैः सम्बद्धाः अनेके गण-मान्याः जनाः उपस्थिताः आसन्।
कार्यक्रमे फकीराग्रामस्वर्णशाखा-साहित्यसभायाः अध्यक्षः पीयूषचौधरी, उपाध्यक्षः कनक-सूत्रधरः, सचिवः अभिजीतनारायणदेवः, समाजसेवी डॉ. रेजाउलकरीमः, शङ्कर-आजानराष्ट्रीय-विद्यालयस्य प्राचार्यः बुद्धचन्दूनाथः सहिताः सुभाषनाथः, कमलेश्वरबर्मन्, अन्यन्या-गोस्वामी, जयदुलइस्लामः, बिजूनाथः, अनुपमानाथः, लक्ष्मीसिन्हा, गायत्रीनाथः, प्रियङ्कासिन्हा, अरविन्दशीलः इत्यादयः बहवः जनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan