Enter your Email Address to subscribe to our newsletters

अनंतनागः, 24 सितंबरमासः(हि.स.)।
अनन्तनागस्य उमानगर्यां स्थिते उमाभगवतीतीर्थस्थले हनुमन्मन्दिरस्य भूमिपूजनं आचार्यलक्ष्मीनारायणेन कृतम्। मैसूरनगरस्य बालागोलायां स्थितस्य श्रीलक्ष्मीनरसिंहक्षेत्रस्य ते धर्माधिकारी सन्ति। अस्मिन् कार्यक्रमे ते मुख्यातिथिरूपेण सम्मिलिताः।
आचार्यलक्ष्मीनारायणेन उमानगर्यां स्थितस्य उमाभगवतीतीर्थस्थलस्य विषये निर्मितस्य वृत्तचित्रस्यापि विमोचनं कृतम्। अस्य वृत्तचित्रस्य अनुसन्धानकार्यं पटकथालेखनकार्यं च उमाभगवत्याः कतिपयैः भक्तैः कृतम्।
कार्यक्रमस्य अवसर आचार्यलक्ष्मीनारायणेन अस्य दिव्यस्य उत्सवस्य भागी भवितुं हर्षं व्यक्तं कृतम् तथा च उपस्थितेभ्यः जनाभ्यः आशीर्वादाः प्रदत्ताः। उमाभगवत्याः भक्तः सामाजिकधार्मिककार्यकर्ता च यागिन्भट्टः अपि अस्मिन् अवसरे स्वविचारान् प्रस्तुतवान्।
कार्यक्रमे बहुसंख्यकाः जनाः सम्मिलिताः तथा च सर्वे भक्तिभावेन आनन्दमनुभूतवन्तः। केन्द्रीयजलशक्तिमन्त्रालयस्य रेलराज्यमन्त्री श्रीवी. सोमण्णः अनन्तनागस्य उपायुक्तः डॉ. बिलालमोहिउद्दीनभट्टश्च अपि अस्मिन् कार्यक्रमे सम्मिलितुं मातुः आशीर्वादं प्राप्तुं च स्वसम्मतिं प्रदत्तवन्तौ। किन्तु कतिपयेषु आवश्यककार्येषु व्यस्ततायाः कारणात् तौ कार्यक्रमे उपस्थितौ भवितुं न शक्नुताम्।
---------------
Hindusthan Samachar / Dheeraj Maithani