Enter your Email Address to subscribe to our newsletters

भोपालम्, 24 सितम्बरमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः एशियाक्रीडा २०२६ मध्ये मार्शल आर्ट्-क्रीडायाः अन्तर्गतं महिलानां ६० किलोग्रामवर्गे रजतपदकं विजितवत्यै नाओरेम रोशिबिना देवी इत्यस्यै तथा पुरुषाणां डबलस्कल्स् स्पर्धायां कांस्यपदकं विजितवद्भ्यां सतनामसिंहाय सलमानखानाय च शुभकामनाः प्रदत्तवान्।
मुख्यमन्त्री डॉ. यादवः गुरुवासरे सामाजिकमाध्यमस्य एक्स् माध्यमेन प्रसारिते स्वसन्देशे अवदत् यत् क्रीडकानां प्रदर्शनं अन्तर्राष्ट्रीयमञ्चे भारतस्य गौरवं वर्धितवान्। एताः उपलब्धयः देशस्य युवाक्रीडकान् निरन्तरम् अग्रे गन्तुं महत्स्वप्नानि द्रष्टुं च प्रेरयिष्यन्ति। मुख्यमन्त्री डॉ. यादवः सर्वेभ्यः क्रीडकेभ्यः तेषां उज्ज्वलभविष्याय शुभकामनाः प्रदत्तवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani