ई-अवकरस्य वैज्ञानिकनिस्तारणाय सर्वकारेण विशेषाभियानस्य शुभारम्भः
नव दिल्ली, 24 सितंबरमासः (हि.स.)। ई-अवसरस्य वैज्ञानिकनिस्तारणाय सर्वकारेण विशेषाभियानस्य प्रारम्भः नवदेहली, २४ सितम्बर (हि.स.)। सामाजिकन्यायाधिकारितामन्त्रालयस्य अन्तर्गतं कार्यरतः दिव्याङ्गजनसशक्तीकरणविभागः (डीईपीडब्ल्यूडी) अक्टोबरमासस्य २ दिना
प्रतीकात्मक


नव दिल्ली, 24 सितंबरमासः (हि.स.)।

ई-अवसरस्य वैज्ञानिकनिस्तारणाय सर्वकारेण विशेषाभियानस्य प्रारम्भः

नवदेहली, २४ सितम्बर (हि.स.)। सामाजिकन्यायाधिकारितामन्त्रालयस्य अन्तर्गतं कार्यरतः दिव्याङ्गजनसशक्तीकरणविभागः (डीईपीडब्ल्यूडी) अक्टोबरमासस्य २ दिनाङ्कतः ३१ दिनाङ्कपर्यन्तं सञ्चालनीयस्य राष्ट्रव्यापिनः ‘विशेषाभियान ६.०’ इत्यस्य व्यापकां सिद्धतां प्रारब्धवान् अस्ति। मन्त्रालयानुसारम् अस्य अभियानस्य उद्देश्यम् शासकीयकार्यालयान् सञ्चितानां सञ्चिकानां भारात् मुक्तान् कर्तुम्, कार्यस्थले स्वच्छतां संस्थागतस्वरूपं प्रदातुम् तथा ईकचरस्य वैज्ञानिकं निस्तारणं कर्तुम् अस्ति। अस्य सञ्चालनं प्रशासनिकसुधारलोकशिकायतविभागेन (डीएआरपीजी) क्रियते।

अभियानस्य सुचारुसञ्चालनाय द्वौ चरणौ निर्धारितौ स्तः। प्रथमचरणे १६ सितम्बरतः ३० सितम्बरपर्यन्तं लम्बितप्रकरणानाम् अनुपयोगिसामग्रीणां च चिह्नीकरणपूर्वकं सिद्धताकार्यं भविष्यति। द्वितीये चरणे २ अक्टोबरतः ३१ अक्टोबरपर्यन्तं निस्तारणस्य स्वच्छतागतिविधीनां च कार्यान्वयनं भविष्यति।

विभागेन अभियानस्य प्रभाविरूपेण कार्यान्वयनाय आन्तरिकस्तरे एकः नोडलाधिकारी नियुक्तः अस्ति। तेन सह सर्वेषां सम्बद्धानाम् अधीनस्थानां च कार्यालयानां, सार्वजनिकक्षेत्रस्य उपक्रमाणां स्वायत्तनिकायानां च कृते निर्देशाः प्रदत्ताः सन्ति यत् तेऽपि नोडलाधिकारिणः नियुक्त्वा डीएआरपीजी द्वारा निर्धारितमानदण्डानुसारं स्क्रैप्, ईकचरं लम्बितसञ्चिकाः च चिह्नयन्तु।

विभागः गतवर्षे अक्टोबरमासे सञ्चालितस्य ‘विशेषाभियान ५.०’ इत्यस्य उपलब्धीनां अधिकविस्ताराय अस्मिन् वर्षे कार्यं कुर्वन् अस्ति। गताभियानस्य प्रमुखपरिणामेषु ११,९७२ भौतिकसञ्चिकानां दस्तावेजानां च निस्तारणं डिजिटलीकरणं च, अनुपयोगिसामग्रीणां निष्कासनेन प्रायः १५,५८८ वर्गफुटपरिमितस्य कार्यालयस्थानस्य रिक्तीकरणम्, कबाडस्य अनुपयोगिसामग्रीणां च निस्तारणेन १४,४७,६१९ रुप्यकाणां राजस्वप्राप्तिः तथा देशस्य विभिन्नेषु केन्द्रेषु ६४ आन्तरिकबाह्यस्वच्छताभियानानां आयोजनं च सम्मिलितम् आसीत्।

प्रतिमासं सञ्चाल्यमानस्य स्वच्छताभियानस्य प्रगतिविवरणं विशेषाभियानस्य पटले नियमितरूपेण अद्यतनं क्रियते।

मन्त्रालयानुसारं ‘विशेषाभियान ६.०’ इत्यस्य अन्तर्गतं विभागस्य मुख्यं ध्यानम् अप्रचलितसङ्गणकानां, विद्युतीयोपकरणानां ईकचरस्य च सुरक्षितसङ्ग्रहणे, पृथक्करणे उत्तरदायित्वपूर्णनिस्तारणे च भविष्यति। विभागस्य उद्देश्यम् निष्क्रियसंसाधनानां सञ्चिकानां च सञ्चयस्य दक्षतायां, पारदर्शितायां तथा उत्कृष्टकार्यस्थलसंस्कृतौ परिवर्तनं करणम् अस्ति।

----------

Hindusthan Samachar / Dheeraj Maithani