Enter your Email Address to subscribe to our newsletters

बिरसिंहपुरतैरत्सौरपरियोजनायां निवेशकसंवादः, परियोजनायाः निवेशसम्भावनासु भविष्यति चर्चा
भोपालम्, २४ सितम्बरमासः (हि.स.)। मध्यप्रदेशे हरितशक्तेः ऊर्जासञ्चयस्य च क्षेत्रयोः निवेशं प्रोत्साहयितुं तथा ग्लोबल् इन्वेस्टर्स् समिट् २०२७ इत्यस्य कृते निवेशसम्भावनाः प्रस्तुतुं शुक्रवासरे, २५ सितम्बरदिनाङ्के नवदिल्ल्यां मध्यप्रदेशभवने बिरसिंहपुरस्य २०० मेगावाट् क्षमतायुक्तायाः तैरत्सौरविद्युत् तथा बैटरीऊर्जासञ्चयप्रणालीपरियोजनायाः विषये निवेशकसम्पर्कहितधारकपरामर्शकार्यक्रमः आयोज्यते।
जनसम्पर्काधिकारी राजेशपाण्डेयः गुरुवासरे अवदत् यत् कार्यक्रमे मध्यप्रदेशस्य नगरीयविकासगृहनिर्माणविभागस्य अपरमुख्यसचिवः सञ्जयदुबे परियोजनायाः तथा प्रदेशे निवेशस्य सम्भावनानां विषये स्वविचारान् प्रस्तुतयिष्यति। कार्यक्रमे मध्यप्रदेशपावरजनरेटिङ्गकम्पनी लिमिटेड् इत्यस्य प्रबन्धसञ्चालकः मञ्जीतसिंहः परियोजनायाः उद्देश्यानां स्वरूपस्य च विषये सूचनां प्रदास्यति।
सः अवदत् यत् अस्मिन् अवसरे अधीक्षणाभियन्ता अवनीशशुक्लः परियोजनायाः विस्तृतं प्रस्तुतिकरणं करिष्यति। कार्यक्रमे निवेशकैः अन्यैः हितधारकैश्च सह हितधारकपरामर्शः प्रश्नोत्तरं च भविष्यति। अस्मिन् सत्रे परियोजनासम्बद्धेषु विषयेषु मुक्तरूपेण चर्चा तथा सुझावानाम् आदानप्रदानं च भविष्यति।
Hindusthan Samachar / Dheeraj Maithani