Enter your Email Address to subscribe to our newsletters

गीतायाः सन्देशं जनजनं प्रति प्रेषयितुं अन्तरराष्ट्रीयगीतामहोत्सवस्य सज्जतासु निरतः कुरुक्षेत्रम्
चण्डीगढम्, २४ सितम्बरमासः। हरियाणाप्रदेशस्य मुख्यमन्त्री नायबसिंहसैनीवर्यस्य अध्यक्षतायां गुरुवासरे कुरुक्षेत्रे गीताज्ञानसंस्थानम् इत्यत्र अन्तरराष्ट्रीयगीतामहोत्सवस्य २०२६ तमस्य आयोजनस्य विषये कुरुक्षेत्रस्य धार्मिकसामाजिकसंस्थानां प्रतिनिधिभिः सह उपवेशनम् अभवत्। उपवेशने विभिन्नसंस्थानां प्रतिनिधिभिः महोत्सवस्य आयोजनसम्बद्धाः स्वकीयाः सुझावाः विचाराश्च मुख्यमन्त्रिणः समक्षं प्रस्तुताः। मुख्यमन्त्रिणा सर्वासां संस्थानां सहयोगेन महोत्सवं भव्यं गरिमापूर्णं जनसहभागितायुक्तं च कर्तुं आह्वानं कृतम्।
मुख्यमन्त्री अवदत् यत् गीता केवलं धार्मिकग्रन्थः नास्ति, अपितु जीवनाय दिशानिर्देशं प्रदातुं समर्थः सन्देशः अस्ति। महात्मागान्धिनः गीतासम्बद्धानां विचाराणाम् उल्लेखं कुर्वन् सः अवदत् यत् गान्धीजी गीतां जीवनस्य कठिनपरिस्थितिषु संघर्षेषु च मार्गदर्शनं सान्त्वनां च प्रदातुं समर्थं ग्रन्थं मन्यन्ते स्म। तथैव लोकमान्यबालगङ्गाधरतिलकेन गीतायाः कर्मयोगे विशेषः बलः प्रदत्तः तथा कर्तव्ये निष्ठां कर्मणि निरन्तरतां च स्थापयितुं सन्देशः प्रदत्तः। श्रीअरविन्दस्य विचाराणाम् उल्लेखं कुर्वन् मुख्यमन्त्री अवदत् यत् गीतायाः सन्देशः जीवनात् विमुखीभवनस्य नास्ति, अपितु कर्मणा आध्यात्मिकचेतनया च जीवनस्य श्रेष्ठां दिशां प्रदर्शयितुं वर्तते।
मुख्यमन्त्री अवदत् यत् अन्तरराष्ट्रीयगीतामहोत्सवस्य माध्यमेन गीतायाः एतमेव सन्देशं जनजनं प्रति प्रेषयितुं प्रयत्नः भवेत्। महोत्सवस्य प्रत्येकस्याः गतिविधेः केन्द्रे गीतायाः सन्देशः भवेत् तथा च अत्र आगतः प्रत्येकः जनः कुरुक्षेत्रस्य संस्कृतिं गीतायाः सन्देशं च स्वसह नीत्वा प्रत्यावर्तेत। मुख्यमन्त्री अवदत् यत् गीताभूमेः गरिमानुरूपं कुरुक्षेत्रस्य वातावरणं स्वच्छं सुन्दरं सुव्यवस्थितं च भवेत्, एतदर्थं सर्वैः मिलित्वा कार्यं करणीयम्। तेन ‘स्वच्छं कुरुक्षेत्रं, पवित्रं कुरुक्षेत्रम्’ इति सामूहिकसङ्कल्पं कर्तुम् आह्वानं कृतम्।
मुख्यमन्त्री अवदत् यत् कुरुक्षेत्रस्य सर्वे प्रमुखचतुष्पथाः महाभारतकालीनविषयवस्तुनुसारं विकसिताः भविष्यन्ति। अनेन नगरस्य विभिन्नेषु भागेषु कुरुक्षेत्रस्य ऐतिहासिकसांस्कृतिकपरिचयः प्रदर्शयितुं शक्यते। तेन उक्तं यत् सम्पूर्णं कुरुक्षेत्रनगरं गीतायाः भगवान् श्रीकृष्णस्य च नगरस्य भावं प्रतिबिम्बयेत् इति प्रयत्नः अस्ति।
अस्मिन् अवसरे गीतामनीषी स्वामीज्ञानानन्दमहाराजः अवदत् यत् सर्वाः धार्मिकसामाजिकसंस्थाः सद्भावनया अन्ताराष्ट्रियगीतामहोत्सवेन सह सम्बद्धाः भवन्तु। अनेन तीर्थस्य कुरुक्षेत्रस्य च अस्माकं सर्वेषां गौरवं वर्धिष्यते। सः अवदत् यत् स्वच्छताभियाने प्रशासनस्य सह सर्वाभिः संस्थाभिरपि अग्रे आगत्य स्वकीयः योगदानः प्रदातव्यः।
Hindusthan Samachar / Dheeraj Maithani