Enter your Email Address to subscribe to our newsletters

काठमाण्डू, २४ सेप्टेम्बरमासः (हि.स.)। नेपालस्य विदेशमन्त्री शिशिरखनालः साम्प्रतं जातेन जलौघप्रकोपेन प्रभावितानां क्षेत्राणां पुनर्स्थापनाय, पुनर्वासाय तथा पुनर्निर्माणाय जर्मनीदेशतः सहयोगम् अयाचत।
संयुक्तराष्ट्रमहासभायाः एकाशीतितमस्य सत्रस्य अवसरे न्यूयॉर्क-नगरे स्थिते संयुक्तराष्ट्रमुख्यालये जर्मनीदेशस्य आर्थिकसहयोग-विकासमन्त्रिण्या रिम-अलाबाली-राडोवान् इत्यनया सह आयोजितायां द्विपक्षीयायां पार्श्ववार्तायां मन्त्री खनालः आपदनन्तरं पुनर्निर्माणेन सह जलवायुसहिष्णुतायै, आपदापूर्व-सज्जतायै तथा क्षमताविकासाय अतिरिक्तनिवेशस्य आवश्यकतायाः विषये बलं दत्तवान्।
विदेशमन्त्री खनालः नेपालस्य विकासप्रक्रियायां जर्मनीदेशेन दीर्घकालात् प्रदीयमानस्य महत्त्वपूर्णस्य सहयोगस्य प्रशंसां कृतवान्। सः उक्तवान् यत् जलवायुपरिवर्तनजनितानां समस्यानां समक्षं करणं सम्पूर्णस्य अन्ताराष्ट्रिय-समुदायस्य सामूहिकं दायित्वम् अस्ति। राडोवान् नेपालदेशे साम्प्रतं घटितां विनाशकारीम् आपदां वैश्विकीं सामूहिकीं समस्यां वर्णयित्वा उक्तवती यत् जर्मनीदेशः नेपालाय वित्तीयां मानवीयां च सहायतां प्रदातुं प्रतिबद्धः अस्ति।
सभायां नेपाल-जर्मनीयोः द्विपक्षीय-सम्बन्धानां विविधपक्षेषु विचारविमर्शः अभवत्। उभौ पक्षौ पारस्परिकहितसम्बद्धेषु क्षेत्रेषु अग्रिमेषु दिवसेषु सहयोगं अधिकं सुदृढं गभीरं च कर्तुं प्रतिबद्धताम् अपि प्रकटितवन्तौ।
Hindusthan Samachar / Dheeraj Maithani