Enter your Email Address to subscribe to our newsletters




प्रधानमन्त्रिणा मोदिना सार्वजनिकजीवनस्य २५ वर्षेषु सेवाभावोऽपि चरितार्थः कृतः : मोहन यादवः
भोपालम्, २४ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी सार्वजनिकजीवनस्य २५ वर्षेषु निरन्तरं परिश्रमेन, अनुशासनेन, राष्ट्रधर्मस्य भावनया च कार्यं कृतवान्। वर्षे २००१ तमे गुजरातस्य मुख्यमन्त्रिरूपेण तस्य संवैधानिकदायित्वस्य प्रारम्भः अभवत्, अद्य सः देशस्य प्रधानमन्त्रीरूपेण राष्ट्रस्य सेवां कुर्वन् अस्ति।
मुख्यमन्त्री डॉ. यादवः गुरुवासरे सेवासङ्कल्पाभियानस्य अन्तर्गतं वडनगरतः वाराणसीं प्रति गच्छन्त्याः युवानां बाइकयात्रायाः देवासमण्डलस्य पुंजापुरे स्वागतं कुर्वन् एतद् उक्तवान्। सः अवदत् यत् निर्धनानां, कृषकाणां, महिलानां, युवानां तथा वञ्चितवर्गस्य प्रत्येकं जनं विकासस्य मुख्यधारायां संयोजयितुं प्रयत्नः प्रधानमन्त्रीमोदिनः कार्यशैल्यां स्पष्टतया दृश्यते।
सः देशाय भव्यं दिव्यं च श्रीराममन्दिरं प्रदत्तवान्। रामराज्यस्य संकल्पनां साकारयन् प्रत्येकस्मै निर्धनाय गृहं, पर्याप्तं भोजनं तथा बालकेभ्यः उत्तमशिक्षायाः सुविधां प्रदत्तवान्।
मुख्यमन्त्रिणा सामाजिकसुरक्षापेन्शनस्य प्रदेशस्य ३५ लक्ष ४२ सहस्राधिकहितग्राहिभ्यः एकेन क्लिक्-माध्यमेन २१२ कोटि ५७ लक्षरुप्यकाणां राशिः तेषां बैंकखातेषु अन्तरिता। करणावत्पुलिससहायताकेन्द्रं पुलिसस्थानकरूपेण परिवर्तयितुं, पुलिसकर्मचारिभ्यः आवासानां निर्माणं कर्तुं तथा शासकीयगोदामाय धनराशेः स्वीकृतिं दातुं च घोषणाः कृताः।
मुख्यमन्त्री कार्यक्रमे सेवासङ्कल्पबाइकयात्रायां स्वयं बाइकयात्रामपि कृतवान्। सः मेधावीछात्रेभ्यः स्कूटीप्रदानं कृत्वा हितग्राहिभ्यः हितलाभस्य वितरणमपि कृतवान्। बाइकयात्रिकैः सह सः वृक्षारोपणमपि कृतवान्।
प्रधानमन्त्री मोदी वडनगरतः वाराणसीं प्रति प्रारब्धायां ‘सेवासङ्कल्पबाइकयात्रायां’ सम्मिलितैः यात्रिकैः सह विभिन्नस्थलेभ्यः आभासीयमाध्यमेन संवादं कृतवान्। देवासमण्डलस्य पुंजापुरे मुख्यमन्त्री डॉ. यादवस्य उपस्थितौ बाइकयात्रिकदलस्य सेवायात्री दीपेशगोटी प्रधानमन्त्रीना सह संवादं कुर्वन् अधुनापर्यन्तस्य यात्रायाः अनुभवाः साझा कृतवान्।
शाजापुरमण्डलस्य निवासी गोटी अवदत् यत् यात्राकाले अन्यराज्येभ्यः आगतेभ्यः युवभ्यः अन्यभाषाः ज्ञातुं तेषां संस्कृतिं च परिचेतुं अवसरः प्राप्तः। मार्गे प्रधानमन्त्रीआवासयोजनायाः हितग्राहिभिः सह मिलनमपि अभवत्। विभिन्नयोजनानां हितग्राहिणः ‘नमो-ऐप्’ इत्यनेन संयोज्यन्ते।
प्रधानमन्त्रिणा मध्यप्रदेशस्य युवानां उद्यमशीलतायाः प्रशंसा
वडनगरे स्थानीयजनैः सह सम्पर्कविषये प्रधानमन्त्रीमोदिना पृष्टे प्रश्नस्य उत्तरं ददन् दीपेशगोटी अवदत् यत् व्यापारव्यवसायस्य दृष्ट्या तेन कतिपयस्थानीयजनानां चलदूरभाषसंख्याः प्राप्ताः। एतस्मिन् प्रधानमन्त्री मोदी प्रसन्नतां प्रकट्य अवदत् यत् एतत् उत्तमं वर्तते। अधुना मध्यप्रदेशस्य स्वभावोऽपि परिवर्तते। मध्यप्रदेशस्य युवानः अपि यत्र गच्छन्ति तत्र व्यापारस्य अवसरान् अन्विष्यन्ति। तेषु उद्यमशीलता वर्तते।
मध्यप्रदेशस्य युवभिः सेवासङ्कल्पयात्रायां ‘माय प्रामिस टू मोदी जी’ इति नवाचारः कृतः। अस्मिन् २५ सेवाकार्याणां सूची निर्मिता अस्ति तथा प्रत्येकं सेवायात्रीं कस्मिंश्चित् एकस्मिन् सेवाकार्ये संकल्पं कारयितुं व्यवस्था कृता अस्ति।
मुख्यमन्त्री डॉ. यादवः अवदत् यत् यात्राकाले सेवा, जनसंवादः तथा राष्ट्रियैकतया सम्बद्धानां सन्देशानां जनजनं प्रति प्रसारणाय विविधाः गतिविधयः आयोज्यन्ते। अस्माकं संस्कृतौ प्राचीनकालादेव यात्राणां विशेषं महत्त्वं वर्तते। प्रधानमन्त्री मोदी देशवासिनां सेवायै स्वसंकल्पेन जीवनस्य प्रत्येकं क्षणं स्वस्य कणं कणं च राष्ट्राय समर्पितवान्। प्रत्येकस्य नागरिकस्य जीवनं सुखमयं कर्तुं प्रधानमन्त्री निरन्तरं सक्रियः अस्ति।
पण्डितदीनदयालोपाध्यायस्य जन्मदिवसात् प्रदेशवासिभ्यः सुगमपरिवहनसुविधा
मुख्यमन्त्री अवदत् यत् देवासस्य बागली क्षेत्रं तपोनिष्ठस्य पूर्वमुख्यमन्त्रिणः स्वर्गीयस्य कैलाशजोश्यस्य कार्यक्षेत्रम् आसीत्। समर्पितकार्यकर्तॄणाम् अथकपरिश्रमेण एव विकासस्य जनकल्याणस्य च यात्रा निरन्तरं प्रवर्तते। प्रधानमन्त्रीमोदिनः मार्गदर्शने राज्यसर्वकारः सेवायाः जनकल्याणस्य च सर्वाः योजनाः शीघ्रतया अग्रे नयति।
सः अवदत् यत् २५ सितम्बर दिनाङ्के पण्डितदीनदयालोपाध्यायस्य जयन्त्यवसरे मध्यप्रदेशे विंशतिवर्षेभ्यः स्थगितस्य राज्यपरिवहननिगमस्य बससेवायाः पुनः शुभारम्भः भविष्यति। प्रदेशे पञ्चलक्षं किलोमीटरपरिमितं मार्गजालं वर्तते। प्रदेशे महामार्गाः द्रुतगत्या निर्मीयन्ते, द्रुतमार्गाणाम् अपि निर्माणं क्रियते। राज्यपरिवहननिगमस्य बससेवा नगरीयनिकायेषु, एकस्मात् नगरात् अपरं नगरं तथा अन्यराज्येष्वपि सञ्चालयिष्यते। प्रदेशस्य ग्रामीणजनसंख्यायै अपि मुख्यमन्त्रिसुगमपरिवहनबससेवायाः लाभः प्राप्स्यते।
मुख्यमन्त्री राज्यसर्वकारस्य उपलब्धीनां वर्णनं कुर्वन् अवदत् यत् प्रदेशस्य युवभ्यः बालकेभ्यश्च उत्तमशिक्षां रोजगारावसरांश्च प्रदातुं सर्वे प्रयत्नाः कृताः। शासकीयविद्यालयानां मेधावीछात्रेभ्यः सङ्गणकयन्त्राणि, स्कूटीः, सायकिलानि, पुस्तकानि छात्रवृत्तयश्च प्रदीयन्ते।
प्रदेशस्य शासकीयप्राथमिकविद्यालयेषु पूर्वं विद्यालयत्यागस्य दरः षोडशप्रतिशतपर्यन्तम् आसीत्, किन्तु राज्यसर्वकारस्य प्रयत्नैः अधुना सा दरः शून्यं जाता। राज्यसर्वकारेण विद्यालयशिक्षायै अष्टत्रिंशत्सहस्रकोटिरुप्यकाणां बजटं निर्धारितम् अस्ति।
सः अवदत् यत् वडनगरतः वाराणसीं प्रति वाराणसीतः वडनगरं प्रति च पञ्चत्रिंशत्सहस्रकिलोमीटराधिकदूरत्वस्य बाइकसेवायात्रा आयोज्यते। तस्याः यात्रायाः प्रायः सप्तदशसहस्रकिलोमीटरदूरत्वं अर्थात् अर्धाधिकं दूरी मध्यप्रदेशस्य भूमौ एव पूर्णा भविष्यति।
प्रदेशस्य युवा उत्तरदायी जागरूकश्च भवेत्। तेषाम् आधारेण एव भविष्यस्य मध्यप्रदेशः देशश्च समृद्धः भविष्यति। प्रदेशसर्वकारेण पुलिसविभागे अष्टादशसहस्रपदेषु नूतननियुक्तिः कृता। सूक्ष्मलघुमध्यमोद्योगक्षेत्रेण एककोटिविंशतिलक्षजनानां रोजगारः प्राप्यते। मध्यप्रदेशे बेरोजगारीदरः देशे न्यूनतमेषु अस्ति।
देवासस्य पुंजापुरे आयोजिते कार्यक्रमे क्षेत्रीयजनप्रतिनिधयः तथा बहुसंख्याकाः युवानः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani