छात्रेभ्यः स्थानीयसमूहेभ्यश्च नवाचारस्य उद्यमितायाः स्वरोजगारस्य च विषये सूचना प्रदत्ता
नवटिहरी, २४ सेप्टेम्बरमासः (हि.स.)। भागीरथीपुरम्-नवटिहर्यां स्थिते टीएचडीसी जलविद्युत् अभियांत्रिकी-प्रौद्योगिकी-संस्थाने उत्तराखण्ड-ग्रामीण-विकास-समितेः सहयोगेन ग्रामीण-उद्यम-त्वरण-परियोजनायाः ‘ग्रामोत्थान’-कार्य-क्रमस्य अन्तर्गतं नवोद्यम-उद्यमिता
फोटो-24एनटीएच04 नई टिहरी के टीएचडीसी-आईएचईटी में बूट कैंप में प्रतिभाग करते स्वयं सहायता समूह के सदस्य।


नवटिहरी, २४ सेप्टेम्बरमासः (हि.स.)। भागीरथीपुरम्-नवटिहर्यां स्थिते टीएचडीसी जलविद्युत् अभियांत्रिकी-प्रौद्योगिकी-संस्थाने उत्तराखण्ड-ग्रामीण-विकास-समितेः सहयोगेन ग्रामीण-उद्यम-त्वरण-परियोजनायाः ‘ग्रामोत्थान’-कार्य-क्रमस्य अन्तर्गतं नवोद्यम-उद्यमिता-प्रशिक्षणशिविरम् आयोजितम्। अस्मिन् शिविरे छात्र-छात्राः कौशलविकासं परिष्कर्तुं तथा च रोजगारस्य याचकानां स्थाने रोजगारप्रदातारः भवितुं प्रेरिताः।

शिविरे स्थानीयाः स्वसहायतासमूहाः अपि सहभागितां कृतवन्तः। गुरुवासरे ग्रामोत्थानस्य डीपीएम बी.के. भट्टः, आईआईएम काशीपुरस्य प्राध्यापकः डॉ. आशीषकुमारः, रोशनीमुङ्गा च शिविरस्य शुभारम्भं कृतवन्तः। तैः उक्तं यत् ग्रामोत्थान-योजनायाः अन्तर्गतं सर्वकारः उद्यमिताविकासं प्रोत्साहयित्वा युवानः स्वरोजगारक्षेत्रे अग्रे नेतुं कार्यं करोति। संस्थागत-नवाचार-परिषदः प्रमुखा डॉ. रमना त्रिपाठी तथा सङ्गणक-विज्ञान-अभियांत्रिकी-विभागस्य विभागाध्यक्षः डॉ. विवेककुमारः उद्यमिताविकासस्य प्रशिक्षणशिविरस्य च उद्देश्यानां विषये सूचनां दत्तवन्तौ।

आईआईएम् काशीपुरस्य डॉ. आशीष-कुमारेण प्रतिभागिभ्यः नवोद्यमानां नूतनव्यावसायिकविचाराणां च विकास-सम्बद्धा उपयोगी सूचना मार्गदर्शनं च प्रदत्तम्। तेन उक्तं यत् कार्यशालायाः प्रमुखः उद्देश्यं युवकेषु स्थानीयसमूहेषु च नवाचारस्य, उद्यमितायाः स्वरोजगारस्य च भावनां प्रोत्साहयितुम् अस्ति। स्वकीय-विचारान् उद्यमरूपेण विकसितुं आवश्यकं परामर्शं दत्त्वा तान् प्रोत्साहयितुम् अपि अस्याः कार्यशालायाः उद्देश्यम् अस्ति।

अस्मिन् अवसरे टीएचडीसी-आईएचईटी-संस्थायाः छात्रैः नवीनविचाराः नवोद्यम-अवधारणाश्च विशेषज्ञाणां समक्षं प्रस्तुताः। विशेषज्ञेभ्यः प्रश्नानाम् उत्तराणि अपि पृष्टानि।

Hindusthan Samachar / Dheeraj Maithani