Enter your Email Address to subscribe to our newsletters

नाहनम्, 24 सितंबरमासः (हि.स.)।
उद्योग, संसदीयकार्य तथा श्रम एवं रोजगारमन्त्री हर्षवर्धनचौहानेन बुधवासरे रात्रौ सराहांनगरे आयोजितस्य त्रिदिवसीयस्य राज्यस्तरीयस्य वामनद्वादशीमेलापकस्य प्रथमसांस्कृतिकसन्ध्यायाः दीपप्रज्वलनेन विधिवत् शुभारम्भः कृतः। अस्मिन् अवसरे उपस्थितं जनसमूहम् सम्बोधयन् उद्योगमन्त्री अवदत् यत् मेलाः उत्सवाश्च अस्माकं समृद्धसंस्कृतेः परिचायकाः सन्ति। अस्माकं प्रदेशस्य संस्कृतिः अतीव समृद्धा अस्ति, तस्याः संरक्षणं सर्वेषामेव नैतिकं दायित्वम् अस्ति, येन भाविसन्ततिरपि तस्याः संस्कृतेः बोधं प्राप्तुं शक्नुयात्। तेन जनपदवासिभ्यः राज्यस्तरीयस्य वामनद्वादशीमेलापकस्य शुभकामनाः प्रदत्ताः।
तेन उक्तं यत् भगवान् विष्णोः वामनावतारस्य शुभावसरे आयोजितः अयं ऐतिहासिकः मेलः स्वस्मिन् समृद्धं सांस्कृतिकेतिहासं धारयति। अस्मिन् मेलापके केवलं पच्छादक्षेत्रस्य जनाः एव न, अपितु सिरमौरजनपदस्य तथा हरियाणाराज्यस्य जनाः अपि भागं गृह्णन्ति। देवपरम्परया सम्बद्धत्वात् अस्य मेलस्य विशेषं महत्त्वम् अस्ति। परस्परमेलमिलापस्य, क्रीडायाः तथा सांस्कृतिकदृष्ट्यापि अयं मेला विशेषमहत्त्वं धारयति।
हर्षवर्धनचौहानेन उक्तं यत् प्रधानमन्त्रीग्रामसडकयोजनायाः चतुर्थचरणस्य अन्तर्गतं सिरमौरजनपदे पञ्चाशीतिकोटिरूप्यकाणां व्ययेन एकादशमार्गपरियोजनाः स्वीकृताः सन्ति। तेषु पच्छादविधानसभाक्षेत्रे द्वयोः सडकयोः निर्माणं द्वादशकोटिरूप्यकाणां व्ययेन भविष्यति। तयोः निर्माणकार्ययोः निविदाप्रक्रिया पूर्णा अभवत् तथा च शीघ्रमेव निर्माणकार्यस्य आरम्भः भविष्यति।
पच्छादक्षेत्रे नाबार्डसंस्थया गिरिनद्याः उपरि चब्योगासमीपे चतुर्दशकोटिरूप्यकाणां व्ययेन सेतुनिर्माणकार्यं करिष्यते। तेन उक्तं यत् अस्माकं संस्कृतिः समृद्धा अस्ति, अतः तस्याः संरक्षणं संवर्धनं च अस्माकं कर्तव्यं भवति। मुख्यमन्त्रिणः कुशलनेतृत्वे हिमाचलप्रदेशः विकासमार्गे अग्रसरः अस्ति तथा च सर्वतोमुखविकासः सुनिश्चितः क्रियते।
उद्योगमन्त्री मेले विभिन्नैः विभागैः स्थापितानां प्रदर्शनीनाम् अपि अवलोकनं कृतवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani