Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, २५ सेप्टेम्बरमासः (हि.स.)। सेवासङ्कल्पाभियानस्य अन्तर्गतं जनपदे शुक्रवासरे ‘आङ्गनमिलनसेवा’ प्रारब्धा। अक्तूबरमासस्य ६ दिनाङ्कपर्यन्तं प्रचलिताय अभियानाय जनपदस्य आङ्गनवाडीकेंद्राणि ८० समूहेषु सङ्गठितानि सन्ति। प्रथमदिने सांसदस्य, विधायकानां जनप्रतिनिधीनां च उपस्थितौ विविधाः कार्यक्रमाः आयोजिताः।
राजपुरपरियोजनायाः भदार-आङ्गनवाडी-केंद्रे सरगुजासांसदस्य चिन्तामणि-महाराजस्य उपस्थितौ स्वस्थशिशु-प्रतियोगिता, ‘मम पोषणथाली’ इति प्रदर्शिनी, आमन्त्रणभोजनं तथा क्रीडनक-दानकार्यक्रमश्च आयोजितः। मातृसंवादस्य समये प्रधानमन्त्रीमातृ-वन्दनायोजनायाः महतारीवन्दना-योजनायाश्च विषये सूचना प्रदत्ता तथा लाभार्थिनीभिः मातृभिः बालकैश्च सह संवादः कृतः।
वाड्रफनगरपरियोजनायाः कार्यक्रमे प्रतापपुरस्य विधायकया शकुन्तला-सिंहपोर्ते इत्यनया आङ्गनवाडीकेंद्रैः समुदायस्य संयोजनस्य महत्त्वे बलं दत्तम्। शङ्करगढे सामरीविधायकाया: उद्देश्वरी-पैकराया: उपस्थितौ महिलाः स्वास्थ्य-परीक्षणाय, गर्भावस्थायां परिचर्यायै तथा बालानां पोषणस्य विषये विशेषं ध्यानं दातुं प्रेरिताः।
अभियानस्य अन्तर्गतं जनपदस्य सर्वेषु आङ्गनवाडीकेंद्रेषु पोषणशक्तिसम्मानः, स्वस्थशिशुप्रतियोगिता, व्यञ्जनविधि-प्रदर्शिनी, स्वास्थ्यपरीक्षणम्, वृक्षारोपणम्, चित्रकलाप्रतियोगिता, क्रीडाप्रतियोगिताश्च आयोजिताः सन्ति। ग्रामीणैः क्रीडनकानि, फलानि अन्नं च समर्प्यन्ते तथा आमन्त्रणभोजने बालकैः सह भोजनं क्रियते। जनसहभागितया आङ्गनवाडी-केंद्रेषु पोषणस्य, स्वास्थ्यस्य सामुदायिकगतिविधीनां च प्रोत्साहनं भवति।
Hindusthan Samachar / Divya Ranjan