प्रौद्योगिक्या नवाचारैश्च कृषकाणाम् उत्पादनमायश्च वर्धयिष्यामः - मुख्यमन्त्री डॉ. यादवः
— मुख्यमन्त्रिणा सिंगरौलीनगरे आयोजिते बलराम-कृषि-महोत्सवे कृषकैः सह दृश्यश्रव्य-माध्यमेन संवादः भोपालम्, २५ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् कृषकाणां हिताय अस्माकं सर्वकारेण अनेकानि पदानि स्वीकृतानि सन्
किसानों से वीसी से संवाद करते हुए मुख्यमंत्री डॉ. मोहन यादव


— मुख्यमन्त्रिणा सिंगरौलीनगरे आयोजिते बलराम-कृषि-महोत्सवे कृषकैः सह दृश्यश्रव्य-माध्यमेन संवादः

भोपालम्, २५ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् कृषकाणां हिताय अस्माकं सर्वकारेण अनेकानि पदानि स्वीकृतानि सन्ति। वयं प्रौद्योगिक्याः नवाचारस्य च माध्यमेन कृषकाणां सस्योत्पादनम् आयश्च उभौ वर्धयितुं निरन्तरं प्रयत्नशीलाः स्मः। मुख्यमन्त्री उक्तवान् यत् सिंगरौली-जनपदस्य रत्नगर्भायां भूमौ अधुना प्राकृतिककृषेः तीव्रं प्रसारणं भवति।

मुख्यमन्त्री डॉ. यादवः शुक्रवासरे सिंगरौलीजनपदे आयोजितं बलराम-कृषिमहोत्सवं मुख्यमन्त्रिनिवासात् दृश्य-श्रव्यसम्मेलनमाध्यमेन सम्बोधयन् आसीत्। मुख्यमन्त्रिणा कृषकेभ्यः अनन्तचतुर्दश्याः मङ्गलकामनाः अपि प्रदत्ताः। मुख्यमन्त्री डॉ. यादवः प्रसन्नतां प्रकटयन् उक्तवान् यत् अस्मिन् जनपदे ३००० अधिकाः कृषकाः प्राकृतिककृष्या सह सम्बद्धाः सन्ति। मुख्यमन्त्री उक्तवान् यत् वयं सर्वे मिलित्वा सिंगरौलीजनपदं कृषिक्षेत्रे अग्रणीजनपदं करिष्यामः। ऊर्जाधानीरूपेण प्रसिद्धं सिंगरौलीजनपदं अधुना प्राकृतिककृषेः प्रमुखकेन्द्रं करिष्यते।

मुख्यमन्त्री डॉ. यादवः कृषकेभ्यः उक्तवान् यत् वयं प्रदेशे १०० लक्षहेक्टेयरपर्यन्तं सिञ्चनक्षमतायाः विस्तारं करिष्यामः। उद्यानिकीक्षेत्रस्य विस्तारं ३० लक्षहेक्टेयरपर्यन्तं करिष्यामः। खाद्य-प्रसंस्करणस्य मूल्यवर्धनस्य च प्रोत्साहनं करिष्यामः। ‘एक: जनपद: एक: उत्पादः’ इत्यस्य माध्यमेन स्थानीयो-त्पादनस्य प्रोत्साहनं करिष्यामः। पशुपालनं दुग्धव्यवसायञ्च ग्रामीण-अर्थव्यवस्थायाः अङ्गं करिष्यामः। सः उक्तवान् यत् कृषिकार्ये संलग्नानां एकलक्षं कृषकाणां, यूनां युवतीनाञ्च विशेषप्रशिक्षणं प्रदाय प्रदेशे कृषिउद्यमिनां नूतनवंशं सज्जीकुर्मः।

मुख्यमन्त्री डॉ. यादवः उक्तवान् यत् सोन-गोपदनद्याः सङ्गमस्थलं सिंगरौलीजनपदं श्री-अन्नोत्पादने अग्रणि अस्ति। कोदो सामा च अत्र प्रमुखसस्ये स्तः। सिंगरौली-डिण्डोरीजनपदयोः कृषकाणां प्रयत्नेन एव सर्वकारेण कोदो-कुटकीधान्ययोः न्यून-तमसमर्थनमूल्येन क्रयणस्य निर्णयः स्वीकृतः।

मुख्यमन्त्री डॉ. यादवः सिंगरौलीजनपदस्य प्रगतिशीलैः कृषकैः सह दृश्यश्रव्य-माध्यमेन संवादं कृत्वा तैः क्रियमाणायाः प्राकृतिककृषेः, श्री-अन्नोत्पादनस्य विशेषतः हरिद्राकृषेश्च विषये सूचनाम् अपृच्छत्। कृषकैः उक्तं यत् पारम्परिककृषेः अपेक्षया जैविकखादस्य प्रयोगेन प्राकृतिककृषौ अधिकं लाभः भवति।

मुख्यमन्त्री डॉ. यादवः उक्तवान् यत् सिंगरौलीजनपदस्य कृषकाः अधुना पारम्परिककृषिणा सह नूतनां प्रौद्योगिकीम् नूतनानि सस्यानि च अपि स्वीकुर्वन्ति। उद्यानिकी-खाद्यप्रसंस्करण-क्षेत्रयोः अपि सिंगरौलीजनपदे पर्याप्ताः सम्भावनाः सन्ति। जनपदे आटाचक्की, तण्डुलचक्की, तैलचक्की, दुग्धोत्पादाः, भक्ष्यपाकशालाः खाद्यप्रसंस्करणस्य च अनेकाः नूतनाः इकाईः स्थापिताः सन्ति। सर्वकारेण कृषकभ्रातृभ्यः दिवसे १० होरा: विद्युत्प्रदानं कर्तुं विद्युत्प्रवाहकानां पृथक्करणं कृतम् अस्ति। अनेन कृषिकार्यार्थं विद्युतः उपलब्धता अधिका सुलभा भविष्यति।

मुख्यमन्त्री डॉ. यादवः जनपदस्य कृषकेभ्यः आह्वानं कृत्वा उक्तवान् यत् ते स्वस्य कृषिकार्ये सस्यवैविध्यीकरणं स्वीकुर्युः। उद्यानिकीं प्राकृतिककृषिं च प्रति रुचिं कुर्वन्तु। तेन सह पशुपालनस्य मत्स्यपालनस्य च व्यवसायेन अपि सम्बद्धाः भवन्तु।

सिंगरौलीनगरे आयोजितस्य बलराम-कृषिमहोत्सवस्य मुख्यकार्यक्रमस्थले पञ्चायत-ग्रामीणविकासराज्यमन्त्री श्रीमती राधासिंहः, सीधी-सिंगरौलीलोक-सभाक्षेत्रस्य सांसदः डॉ. राजेशमिश्रः तथा अन्ये जनप्रतिनिधयः अपि सम्बोधितवन्तः। अस्मिन् अवसरे सिंगरौली-विधायकः रामनिवासशाहः, विन्ध्यविकासप्राधि-करणस्य अध्यक्षः पञ्चूलालप्रजापतिः, कपिलयार्दे, रामलल्लनसिंहः, जयपाल-सिंहः इत्यादयः प्रगतिशीलाः कृषकाः तथा जनपदस्य विभिन्नेभ्यः भागेभ्यः आगताः बहुसंख्यकाः कृषकाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan