Enter your Email Address to subscribe to our newsletters

नोएडा, 25 सितंबरमासः (हि.स.)।
उत्तरप्रदेश-अन्ताराष्ट्रियव्यापारप्रदर्शनस्य उद्घाटनावसरे उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् एतत् व्यापारप्रदर्शनं उत्तरप्रदेशस्य प्रति वैश्विकविश्वासस्य प्रतीकम् अस्ति। अस्माकं कार्यक्रमान्, युवानः, नवाचारं, अस्माकं सूक्ष्मलघुमध्यमोद्योगक्षेत्रं तथा अस्माकम् अन्नदातॄणां कृषकाणां परिश्रमं वैश्विकपटलं प्रति नीत्वा उत्तरप्रदेशाय नवीनं परिचयं प्रदातुं एषः नवीनः उपक्रमः अस्ति।
सः अवदत् यत् उत्तरप्रदेश-अन्तर्राष्ट्रीयव्यापारप्रदर्शने अस्माभिः सह सहभागिदेशरूपेण ऑस्ट्रिया, जापान, रूस, सिङ्गापुर, बेलारूस तथा वियतनाम इत्यादयः देशाः सन्ति। एते अस्य आयोजनस्य नवीनां ऊर्ध्वतां प्रददति। प्रौद्योगिक्यां उत्पादनक्षेत्रे च उत्तरप्रदेशे विविधाः अन्तर्राष्ट्रीयाः कम्पन्यः आमन्त्रयितुं तथा अत्रैव उत्पादानां निर्याताय सुलभं मार्गं प्रदातुं एतत् व्यापारप्रदर्शनं महत्त्वपूर्णां भूमिकां निर्वहति।
सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे उत्पादनस्य गुणवत्ता, अत्रत्याः आपूर्तिशृङ्खलायाः सुदृढता तथा अत्रत्योद्योगानां विश्वसनीयता इत्येतेषु विषये अद्य सम्पूर्णविश्वस्य पूर्णः विश्वासः उत्पन्नः अस्ति। द्विसहस्राधिकाः चतुःशतं प्रदर्शकाः अस्य भागं जाताः सन्ति। एतत् उत्तरप्रदेशस्य सामर्थ्यं द्रष्टुम् अपि अवसरं प्रददाति। सः अवदत् यत् उत्तरप्रदेशेन विगतेषु दशवर्षेषु केन्द्रीयनेतृत्वस्य मार्गदर्शने विकासस्य नूतनं परिभाषणं लिखितम् अस्ति।
सः अवदत् यत् उत्तरप्रदेशसर्वकारेण ग्रामेषु कस्बेषु च निवसतां जनानां कौशलक्षमतां ज्ञात्वा तस्याः क्षमतायाः विकासाय अवसरः प्रदत्तः। वयं प्रतिभाम् अवसरं च प्रौद्योगिक्या सह संयोजितवन्तः। सर्वकारं अवसरप्रदातारं कृतवन्तः तथा गुणवत्तया, अभिकल्पनया, सुविधया, ब्राण्डनिर्माणेन विपणनेन च स्थानीयोत्पादान् उद्यमरूपेण विकसितुं कार्यं कृतवन्तः।
सः अवदत् यत् व्यवसायस्य गतिं वर्धयितुं वैश्विकमानकानुरूपं आधारभूतसंरचनातन्त्रम् अपि प्रदेशे विकसितम्। द्रुतमार्गैः, राजमार्गैः, विमानपत्तनैः, मालवाहकद्रुतमार्गैः तथा औद्योगिकाधारभूतसंरचनया आर्थिकावसराणां विकासस्य च बहुकेन्द्रीयं तन्त्रम् निर्मितम्। अन्तर्राष्ट्रीयवैश्विकविपणिभिः सह संयोजयित्वा एतादृशी मूल्यशृङ्खला निर्मिता या वैश्विकव्यापारस्य मार्गं उद्घाटितवती।
सः अवदत् यत् उत्तरप्रदेश-अन्तर्राष्ट्रीयव्यापारप्रदर्शनम् एतत् प्रदर्शयितुं महत्त्वपूर्णं मञ्चं जातम् अस्ति। अत्र उत्तरप्रदेशस्य स्थानीयोत्पादाः वैश्विकविपण्यस्य समक्षं स्वकीयां विशिष्टां परिचितिं स्थापयन्ति। ‘एकजनपदः एकोत्पादः’ इति योजना अस्माकं पारम्परिकशिल्पिनां कौशलं वैश्विकविपणिना सह संयोजयति। विभिन्नयोजनानां माध्यमेन शिल्पिभ्यः उपकरणानि प्रदीयन्ते तथा तान् विपणिना सह संयोजयितुं प्रयत्नः क्रियते।
सः अवदत् यत् अद्य उत्तरप्रदेशस्य सूक्ष्मलघुमध्यमोद्योगक्षेत्रे एकोनाशीतिः उत्पादाः सन्ति येषां भौगोलिकसूचकाङ्कस्य मान्यता प्राप्ता अस्ति। पञ्चसप्ततिः उत्पादेभ्यः आवेदनं कृतम् अस्ति। भदोहीनगरस्य उत्कृष्टकालीनाः, मुरादाबादस्य पीतलोत्पादाः, कन्नौजस्य सुगन्धिद्रव्यं वा वाराणस्याः रेशमसाटिका वा, अद्य अस्माकं सांस्कृतिकं धरोहरं कोटिरूप्यकाणां वार्षिकव्यापारयुक्तेषु ब्राण्डेषु परिवर्तितम् अस्ति।
सः अवदत् यत् उत्तरप्रदेश-अन्तर्राष्ट्रीयव्यापारप्रदर्शनं क्रेतृभिः सह प्रत्यक्षं सम्पर्कं स्थापयित्वा मध्यस्थव्यवस्थाम् अपि समाप्तुं प्रयतते। उत्तरप्रदेश-अन्तर्राष्ट्रीयव्यापारप्रदर्शनस्य वर्ष २०२६ तमस्य संस्करणे उत्तरप्रदेशस्य औद्योगिकस्य, कृषिसम्बद्धस्य, हस्तशिल्पस्य सेवाक्षेत्रस्य च विविधता प्रदर्शिता भविष्यति।
अस्मिन् कृषिः सम्बद्धक्षेत्राणि च, वाहनानि, विद्युद्वाहनानि, वाहनघटकाः, विमाननम्, रक्षा, इलेक्ट्रॉनिक्स्, वाणिज्यं च, सूचनाप्रौद्योगिकी, स्मार्टनगरसमाधानानि, चलचित्रं मनोरञ्जनं च, मत्स्यपालनम्, पशुपालनं दुग्धव्यवसायश्च, खाद्यप्रसंस्करणं द्रुतगतिउपभोक्तृवस्तूनि च, उद्यानकृषिः, करघावस्त्राणि, हस्तशिल्पं वस्त्रोद्योगश्च, स्वास्थ्यं, आरोग्यकल्याणम्, आयुर्वेदः, औषधनिर्माणं चिकित्सोपकरणानि च, आधारभूतसंरचना, अभियान्त्रिकी, विनिर्माणं भवननिर्माणक्षेत्रं च, चर्मोद्योगः, पर्यटनं आतिथ्यसेवा च, क्रीडा, क्रीडोपकरणानि, नवीकरणीयऊर्जा, विद्युत्, खननम्, रसदव्यवस्था भाण्डारणव्यवस्था च, खुद्राविक्रयः, वित्तीयसेवाः, शिक्षा कौशलविकासश्च, पैकेजिङ्ग मुद्रणं च, जलं स्वच्छता मलजलव्यवस्थापनं च इत्यादयः क्षेत्राणि सम्मिलितानि भविष्यन्ति।
सः अवदत् यत् प्रदर्शने सूक्ष्मलघुमध्यमोद्योगविकासः, उद्यमिता कौशलविकासश्च, समूहविकासः, अङ्कीयपरिवर्तनम्, अन्तर्राष्ट्रीयसहकारिता, क्रयणं विपणनसहायता च, रोजगारसृजनम् तथा ग्रामीणनगरीयविकाससम्बद्धाः सर्वकारीयाः योजनाः नीतयश्च प्रमुखतया प्रदर्शिताः भविष्यन्ति। औद्योगिकनिवेशः, निर्यातः, वस्त्रोद्योगः परिधाननिर्माणं च सम्बद्धाः उत्तरप्रदेशस्य क्षेत्रविशेषनीतयः अपि आयोजनस्य भागाः भविष्यन्ति।
पञ्चदिवसीये आयोजने व्यावसायिकसम्पर्काः, ज्ञानसत्राणि, सांस्कृतिककार्यक्रमाः, प्रत्यक्षप्रस्तुतयः, पुरस्कारप्रदानसमारोहाः, वेशभूषाप्रदर्शनं प्रकाशप्रदर्शनं च सहिताः अनेकाः गतिविधयः भविष्यन्ति। ज्ञानकार्यक्रमे कृत्रिमबुद्धिमत्ता, इलेक्ट्रॉनिक्सनिर्माणम्, अङ्कीयव्यापारः, खाद्यप्रसंस्करणम्, सूक्ष्मलघुमध्यमोद्योगाः, वैश्विकमुक्तव्यापारसम्झौताः तथा अन्येषु उद्भवमानेषु क्षेत्रेषु चर्चा भविष्यति। अनेन उद्योगक्षेत्रस्य जनानां ज्ञानविनिमयाय, संवादाय सहकारितायै च अवसराः प्राप्स्यन्ति।
उत्तरप्रदेश-अन्तर्राष्ट्रीयव्यापारप्रदर्शनं व्यापारनिवेशाभ्यां सह उत्तरप्रदेशस्य संस्कृतिं, भोजनपरम्परां, नवाचारम् उद्यमशीलतां च वैश्विकमञ्चं प्रददाति। अत्र प्रदेशस्य विनिर्माणक्षमता, सूक्ष्मलघुमध्यमोद्योगव्यवस्था, एकजनपदः एकोत्पादः तथा एकजनपदः एकविशेषोत्पादः इत्यादयः उत्पादाः, हस्तशिल्पम्, वस्त्रोद्योगः, कृषिः, खाद्यवस्तूनि, पर्यटनम्, नवाचारम् उद्भवमानोद्योगाश्च देशविदेशयोः क्रेतृभिः, निवेशकैः व्यापारसमुदायेन च सह संयोजयितुं प्रयत्नः क्रियते। उत्तरप्रदेश-अन्तर्राष्ट्रीयव्यापारप्रदर्शनस्य वर्ष २०२६ तमं संस्करणं पूर्वतनानां त्रयाणां संस्करणानां सफलताम् आधारीकृत्य अग्रे वर्धते।
अस्मिन् अवसरे जापानस्य राजदूतः, सिङ्गापुरस्य उच्चायोगस्य प्रतिनिधिः, बेलारूसस्य राजदूतः, गौतमबुद्धनगरस्य सांसदः डॉ. महेश शर्मा, राज्यसभासदस्यः सुरेन्द्रसिंहनागरः, उत्तरप्रदेशस्य उपमुख्यमन्त्री बृजेशपाठकः, उत्तरप्रदेशस्य मन्त्रिमण्डलस्य सदस्यः भूपेन्द्रचौधरी, मन्त्रिमण्डलस्य सदस्यः नन्दगोपालनन्दी, ऊर्जामन्त्री एके शर्मा, मन्त्रिमण्डलस्य सदस्यः राकेशसचानः, मन्त्री बृजेशसिंहः, राज्यमन्त्री हंसराजविश्वकर्मा, भाजपादलस्य पश्चिमोत्तरप्रदेशक्षेत्रस्य क्षेत्रीयाध्यक्षः नवाबसिंहनागरः, विधायकः पङ्कजसिंहः, धीरेन्द्रसिंहः, विधानपरिषदः सदस्यः श्रीचन्दशर्मा, विधानपरिषदः सदस्यः नरेन्द्रभाटी च उपस्थिताः आसन्।
-----------