Enter your Email Address to subscribe to our newsletters

धर्मशाला, 25 सितंबरमासः (हि.स.)।
हिमाचलस्य पुत्री पुष्पा राणायाः नेतृत्वे भारतीयमहिलाकबड्डीदलेन एशियाईक्रीडासु सुवर्णपदकस्य दिशि एकः अन्यः चरणः अग्रे स्थापितः। जापानदेशस्य अयाची नागोयानगरे शुक्रवासरे आयोजिते उपान्त्यचक्रस्य क्रीडायां भारतं नेपालं ४८ २४ इति अङ्कान्तरं पराजित्य अन्तिमचक्रं प्रविष्टवान्। अधुना शनिवासरे सुवर्णपदकाय भारतस्य स्पर्धा ईरानदेशेन सह भविष्यति। ईरानदेशः द्वितीये उपान्त्यचक्रे चीनी ताइपे देशं २३ १९ इति अङ्कान्तरं पराजित्य अन्तिमचक्रस्य प्रवेशपत्रं प्राप्तवान्।
तोकाई सिटिजन्स् जिम्नेजियम इत्यत्र आयोजिते उपान्त्यचक्रस्य क्रीडायां भारतीयदलेन प्रारम्भादेव स्वप्रभुत्वं स्थापितम्। भारतं प्रथमपादे ३१ १७ इत्यस्य अग्रतां प्राप्तवान्। द्वितीये पादेऽपि भारतीयक्रीडकाः नेपालाय प्रत्यागमनस्य अवसरं न अददुः तथा ४८ २४ इत्यन्तरेण क्रीडां स्वपक्षे कृतवन्तः। भारतस्य पक्षतः क्रीडायां समग्रतया ३५ आउट् अङ्काः प्राप्ताः, यदा तु नेपालः केवलं १८ आउट् अङ्कान् प्राप्तवान्। भारतीयदलेन क्रीडायां त्रिवारं नेपालं सर्वतः आउट् कृतम्।
एतस्मात् पूर्वम् अपि भारतीयदलं समूहचरणे अपराजितं तिष्ठित्वा त्रयः अपि मुकाबलाः विजितवान्। भारतं स्वस्य प्रथमक्रीडायां बाङ्ग्लादेशं ४२ २१ इति, द्वितीयक्रीडायां ईरानं ३७ २३ इति तथा अन्तिमसमूहक्रीडायां मेजबानं जापानं ५० २५ इति अङ्कान्तरैः पराजितवान्। अर्थात् अन्तिमचक्रात् पूर्वं भारतीयदलेन चतसृषु क्रीडासु निरन्तरं चतस्रो विजयाः प्राप्ताः। एतासु चतसृषु क्रीडासु भारतं समग्रतया १७७ अङ्कान् प्राप्तवान्, यदा तु विपक्षिदलानि केवलं ९३ अङ्कान् प्राप्तवतीनि।
अधुना अन्तिमचक्रे भारतस्य समक्षम् ईरानस्य चुनौती भविष्यति। विशेषतया उल्लेखनीयम् अस्ति यत् समूहचरणे भारतं पूर्वमेव ईरानं ३७ २३ इति अङ्कान्तरं पराजितवान् आसीत्, किन्तु सुवर्णपदकस्य स्पर्धा नवीनपरिस्थितिषु भविष्यति। भारतं २०२२ तमे वर्षे हाङ्गझोउ एशियाईक्रीडासु महिलाकबड्डीविषये सुवर्णपदकविजेता आसीत् तथा अस्मिन् समये अपि उपाधिं रक्षितुं क्रीडति।
हिमाचलस्य चतसृणां पुत्रीणां प्रदर्शनं प्रति भविष्यति दृष्टिः
भारतीयदले हिमाचलप्रदेशस्य चतस्रः पुत्र्यः सम्मिलिताः सन्ति। तासु कप्तानः पुष्पा राणा इत्यस्याः अतिरिक्तं रितु नेगी, ज्योति ठाकुरः तथा भावना ठाकुरः सन्ति। पुष्पा, ज्योति तथा भावना धर्मशालास्थिते भारतीयक्रीडाप्राधिकरणस्य राष्ट्रियश्रेष्ठताकेन्द्रे प्रशिक्षणं प्राप्नुवन्ति। अधुना अन्तिमचक्रे हिमाचलस्य एतासां पुत्रीणां प्रदर्शनं प्रति सम्पूर्णप्रदेशस्य जनानां दृष्टिः स्थास्यति।
/ Dheeraj Maithani