Enter your Email Address to subscribe to our newsletters

धर्मशाला, २५ सेप्टेम्बरमासः (हि.स.)। शिक्षाक्षेत्रे उत्कृष्टयोगदानस्य नवाचारस्य च माध्यमेन राष्ट्रियस्तरे हिमाचलप्रदेशस्य गौरवं वर्धितवतीं प्रधानाचार्यां मञ्जरी वी. महाजनां हिमाचलप्रदेशविद्यालय-शिक्षापरिषदा विशेषरूपेण सम्मानितम्। सम्प्रत्येव ‘राष्ट्रीयशिक्षकपुरस्कार-२०२६’ इत्यनेन सम्मानेन सम्मानितायै तस्यै परिषद: अध्यक्षः डॉ. राजेशशर्मा शुक्रवासरे बोर्डकार्यालये सम्मानं प्रदत्तवान् तथा तस्याः ऐतिहासिकोपलब्धेः कृते शुभकामना: अर्पितवान्।
पीएम श्री राजकीयवरिष्ठमाध्यमिक-विद्यालयस्य सुजानपुरतीहरायाः प्रधाना-चार्य-पदं वहन्ती मञ्जरी वी. महाजनः विद्यालये आधुनिकशिक्षण-पद्धतीनां कार्यान्वयनेन नूतनं कीर्तिमानं स्थापितवती। डॉ. राजेशशर्मा तस्याः कार्याणां प्रशंसां कुर्वन् अवदत् यत् मञ्जरी केवलं गुणवत्तापूर्ण-शिक्षाप्रदाने एव स्वं न सीमितवती, अपितु छात्रेषु सामाजिक-पर्यावरणीयदायित्वानि प्रति अपि गहनां जागरूकतां विकसितवती। नवाचारा-धारितशिक्षणम्, विद्यालयस्य प्रभावी नेतृत्वं, बालानां सर्वाङ्गीण-विकासाय कृताः निरन्तरप्रयासाश्च अत्यन्तं प्रशंसनीयाः सन्ति।
डॉ. शर्मणा उक्तं यत् एतत् सम्मानं मञ्जर्याः व्यक्तिगतसफलतायाः सह सम्पूर्ण-हिमाचलप्रदेशस्य गौरवस्य अपि क्षणः अस्ति। सः अवदत् यत् एषा उपलब्धिः प्रदेशस्य शिक्षकाणां परिश्रमं समर्पणं च राष्ट्रियपटलं प्रति प्रतिष्ठां प्रापयति तथा तस्याः सफलता अन्येषां शिक्षकाणां विद्यार्थिनां च कृते महती प्रेरणा अस्ति।
Hindusthan Samachar / Divya Ranjan