राष्ट्रपतिना मुर्मुना षण्णां देशानां राजदूतानां परिचयपत्राणि स्वीकृतानि
नव दिल्ली, 25 सितंबरमासः (हि.स.) राष्ट्रपतिः द्रौपदी मुर्मुः शुक्रवासरे राष्ट्रपतिभवने आयोजिते एकस्मिन् समारोहे फिनलैण्ड्, वियतनाम, मेक्सिको, एस्टोनिया, यूरोपीयसङ्घ तथा बेल्जियम इत्येतेषां षण्णां देशानां राजदूतानां परिचयपत्राणि स्वीकृतवती। फिनलैण
फिनलैंड के राजदूत मिक्को किविकोस्की शुक्रवार को राष्ट्रपति द्रौपदी मुर्मु को अपना परिचय-पत्र प्रस्तुत करते हुए


नव दिल्ली, 25 सितंबरमासः (हि.स.)

राष्ट्रपतिः द्रौपदी मुर्मुः शुक्रवासरे राष्ट्रपतिभवने आयोजिते एकस्मिन् समारोहे फिनलैण्ड्, वियतनाम, मेक्सिको, एस्टोनिया, यूरोपीयसङ्घ तथा बेल्जियम इत्येतेषां षण्णां देशानां राजदूतानां परिचयपत्राणि स्वीकृतवती।

फिनलैण्डस्य राजदूतः मिक्को किविकोस्की सर्वप्रथमं राष्ट्रपतये स्वस्य परिचयपत्रं प्रस्तुतवान्। ततः वियतनामस्य राजदूतः त्रिन्ह मिन्ह मनहः, मेक्सिकोदेशस्य राजदूतः पेड्रो ब्लांको पेरेजः तथा एस्टोनियादेशस्य राजदूतः क्रिस्टी कारेलसोहनः स्वकीयानि परिचयपत्राणि समर्पितवन्तः।

यूरोपीयसङ्घस्य राजदूतः जीन एरिक पाको तथा बेल्जियमदेशस्य राजदूतः सोफी कार्लशॉसेनः अपि राष्ट्रपतये मुर्मुमहाभागायै स्वकीयानि परिचयपत्राणि प्रस्तुतवन्तौ।

---------------

Hindusthan Samachar / Dheeraj Maithani