पण्डितदीनदयालोपाध्यायस्य जयन्तीसमारोहः आयोजितः
सहरसा, २५ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापार्टी-सहरसा-जनपदस्य तत्वावधाने शुक्रवासरे पटुआहास्थिते भाजपा-जनपदकार्यालये जनपद-सङ्गोष्ठीकार्यक्रमस्य आयोजनं जनपदाध्यक्षस्य साजनशर्मणः नेतृत्वे कृतम्। कार्यक्रमस्य मुख्यातिथिः अतिपश्चात्वर्गायोगस्य सदस्य
जयंती समारोह


सहरसा, २५ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापार्टी-सहरसा-जनपदस्य तत्वावधाने शुक्रवासरे पटुआहास्थिते भाजपा-जनपदकार्यालये जनपद-सङ्गोष्ठीकार्यक्रमस्य आयोजनं जनपदाध्यक्षस्य साजनशर्मणः नेतृत्वे कृतम्। कार्यक्रमस्य मुख्यातिथिः अतिपश्चात्वर्गायोगस्य सदस्यः स्वदेश-कुमारयादवः आसीत्। कार्यक्रमस्य सञ्चालनं जनपदमहासचिवः भैरवानन्द-झा: अकरोत्।

कार्यक्रमे सहरसामहानगरपालिकायाः महापौरः बेनप्रिया, जनपदोपाध्यक्षौ रिङ्कीदवी मनोजयादवश्च, जनपदमन्त्री पङ्कजपाठकः, अरविन्दभगतः, विपिन-कुशवाहः, माध्यमप्रभारी सुमितकुमार-सिन्हा, जनपदप्रवक्ता अभिषेकपाण्डेयः, दिनेशयादवः, महिलामोर्चाध्यक्षः सुगमनी-देवी, अखिलेशसिंहः, सञ्जयसाहः, राकेशसिंहः, ललनकुमारः, मण्डलाध्यक्षः सुमितकुमारबिट्टू, विष्णुदेवमुखिया, किशोरशाहः, नवीनकुमारसाहः इत्येतै: सह दलस्य पदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्।

सङ्गोष्ठ्याः अवसरे महान् राष्ट्रवादी-चिन्तकः भाजपा-दलस्य प्रेरणा-स्रोतश्च पण्डितदीनदयालोपाध्यायस्य जयन्ती समारोहपूर्वकं आयोजिता।

Hindusthan Samachar / Divya Ranjan