Enter your Email Address to subscribe to our newsletters


—वर्षायाः अभावेऽपि रामलीलायां सम्मिलितुं लीलाप्रेमिषु उत्साहः, विशिष्टेन बनारसी-वेषेण जनाः आगच्छन्ति
—यूनेस्को-संस्थया अमूर्तसांस्कृतिक-धरोहरस्य सूच्यां राम-लीला समावेशिता
वाराणसी, २५ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगर्या: वाराणस्याः उपनगरे रामनगरे शुक्रवासरे सायं विश्वप्रसिद्धायाः रामलीलायाः शुभारम्भः भविष्यति। अस्मिन् विषये रामलीलाप्रेमिषु महत् उत्साहः दृश्यते। प्रातःकालादेव आवश्यककार्याणि समाप्य लीलाप्रेमिणः अपराह्णसमयादेव विशिष्टेन बनारसी-अन्दाजेन स्वकीयैः साधनैः मित्रैः बालकैश्च सह रामनगरं प्रति आगन्तुं प्रारब्धवन्तः। रामलीलायाः शुभारम्भः रावणस्य जन्मेन भविष्यति।
काशीराजपरिवारस्य वंशजस्य डॉ. अनन्तनारायणसिंहस्य उपस्थितौ रामबाग इत्यस्य मुख्यद्वारस्य समीपे सायं पञ्चवादने लीला प्रारप्स्यते। अस्मिन् रावणस्य जन्म, ब्रह्मणः समीपे वरदानयाचनं च इत्यादयः विविधाः प्रसङ्गाः भविष्यन्ति। अत्र तुलसीकृतस्य श्रीरामचरितमानसस्य बालकाण्डस्य कतिपयचौपाईनां गायनानन्तरं लीलायाः एकहोरायाः विरामः भविष्यति। एकहोरानन्तरं क्षीरसागरस्य भव्यप्रदर्शिनी सज्जीता भविष्यति। अस्याः पूर्वं परम्परानुसारं रामनगरदुर्गात् महाराजः अनन्तनारायणसिंहः राजकीयबग्ग्यां प्रस्थानं करिष्यति। लीलास्थले तस्य आगमने रामनगरस्य पी.ए.सी. इत्यस्य ३६वीं वाहिन्याः सैनिकाः तस्मै सशस्त्रसलामीमपि प्रदास्यन्ति। राम-लीलायां देवस्तुतिः आकाशवाण्याः मञ्चनं च भविष्यति।
उल्लेखनीयं यत् एषा अनन्या रामलीला द्विशतवर्षेभ्यः अपि प्राचीना ऐतिहासिकी च अस्ति। पूर्णमासपर्यन्तं प्रचलितां रामलीलां यूनेस्को-संस्थया अमूर्तसांस्कृतिक-धरोहरस्य सूच्यां समावेशिता अस्ति। अस्याः प्रमुखविशेषता अस्ति यत् सा एकस्मिन् एव मञ्चे न भवति, अपितु रामनगरस्य ५–१० किलोमीटरपरिमिते क्षेत्रे निर्मितेषु अयोध्या, जनकपुरी, चित्रकूट, लङ्का इत्यादिषु ४० मुक्तमञ्चेषु भवति। अस्यां रामलीलायां अद्यापि ध्वनिवर्धकयन्त्राणां आधुनिकप्रकाशव्यवस्थायाश्च प्रयोगः न भवति। मशाल-पेट्रोमेक्स-दीपानां प्रकाशे पात्राणि उच्चैः स्वरेण संवादान् कथयित्वा प्रसङ्गान् जीवन्तं कुर्वन्ति।
वाराणस्याः जगत्गञ्जनिवासी रामलीला-प्रेमी वयोवृद्धः श्यामनारायण-पाण्डेयः कथयति यत् रामनगरस्य रामलीला विशेषतः स्वस्य भव्यतायै, विशिष्टतायै, प्रस्तुतिकरणस्य अनन्यशैल्यै धार्मिक-स्वरूपाय च प्रसिद्धा अस्ति। एषा गोस्वामितुलसीदासेन रचितस्य रामचरित-मानसस्य आधारेण भवति। रामनगरस्य रामलीला भाद्रपदशुक्ल-पक्षस्य अनन्त-चतुर्दश्याः आरभ्य आश्विनमासस्य पूर्णिमापर्यन्तं प्रचलति।
रामनगरस्य रामलीलायाः आयोजनं काशीनरेशस्य महाराजस्य उदितनारायण-सिंहस्य शासनकाले प्रारब्धम्। महाराजेन ईश्वरीनारायणसिंहेन तु तस्याः सामान्यजनानां समीपं प्रसारः कृतः। अष्टादशशताब्द्यां तत्कालीन-काशीनरेशः महाराजः बलवन्तसिंहः रामनगरदुर्गस्य निर्माणं कारितवान्, यत्र रामलीलायाः परम्परा प्रारब्धा। रामनगरे रामलीलायाः औपचारिकप्रारम्भः १८३०-दशके काशीनरेशेण महाराजेन उदितनारायण-सिंहेन कारितः।
वरिष्ठपत्रकारः सुशीलमिश्रः कथयति यत् रामनगरस्य रामलीलायाः मञ्चनं रामचरितमानसस्य आधारेण अवधी-भाषायां भवति। अस्यां विद्युत्प्रकाशस्य ध्वनिवर्धकयन्त्रस्य च उपयोगः न भवति, अपितु पेट्रोमेक्स-दीपानां मसालानां च प्रकाशे पात्राः स्वकीयेन स्वरबलेन लीलां प्रस्तुवन्ति।
Hindusthan Samachar / Divya Ranjan