Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 26 सितंबरमासः (हि.स.)।सर्वकारे कृत्रिमबुद्धेः प्रभाविसदुपयोगाय संगणनमूलभूतसंरचनायाः, कृत्रिमबुद्धिप्रतिमानानां दत्तांशस्य च एकत्रीकरणेन सुदृढं पारिस्थितिकीतन्त्रं विकसितुं आवश्यकता वर्तते। इलेक्ट्रॉनिकी एवं सूचनाप्रौद्योगिकीमन्त्रालयस्य सचिवः एस्. कृष्णन् शनिवासरे एतद् उक्तवान्।
रेलटेलसंस्थया आयोजितायां ‘एआई@गवर्नमेंट : पावरिंग द फ्यूचर’ इति कार्यशालायां मुख्यवक्तृरूपेण सम्बोधयन् कृष्णन् उक्तवान् यत् भारतं तादृशान् कृत्रिमबुद्धिप्रयोगान् विकसितुम् अर्हति, ये देशस्य बहुभाषिकतायाः, बहुसांस्कृतिकतायाः, विभिन्नक्षेत्राणां च आवश्यकतानाम् अनुरूपाः स्युः। तेन स्वदेशीयकृत्रिमबुद्धिसामर्थ्यस्य विकासः, दत्तांशसार्वभौमत्वं, साइबरसुरक्षा च महत्त्वपूर्णा इति प्रतिपादितम्।
तेन उक्तं यत् कृत्रिमबुद्धेः प्रयोगः शासनव्यवस्थायां, नागरिककेन्द्रितसेवासु, उद्यमेषु च व्यापकं परिवर्तनं जनयितुं शक्नोति। अस्मिन् क्षेत्रे सर्वकारेण ‘इण्डिया एआई मिशन’ इत्यस्य अन्तर्गतं क्रियमाणानां प्रयत्नानाम् अपि तेन उल्लेखः कृतः।
कृष्णने कृत्रिमबुद्ध्यै सज्जमूलभूतसंरचनायाः सुदृढीकरणे रेलटेलस्य सम्भावितां भूमिकाम् अपि रेखाङ्कितवान्। तेन उक्तं यत् देशे अङ्कीयपरिवर्तनस्य प्रवर्धनाय दूरसञ्चारस्य तथा सूचनासञ्चारप्रौद्योगिक्याः मूलभूतसंरचनायाः कृत्रिमबुद्धेः आवश्यकतानाम् अनुरूपं विकासः महत्त्वपूर्णः अस्ति।
कार्यशालायां कृत्रिमबुद्धेः व्यावहारिकप्रयोगस्य तथा शासकीयसंस्थासु तस्य उपयोगसम्बद्धानां विविधपक्षाणां विषये चर्चा अभवत्। परिचर्चायां दत्तांशस्य सज्जता, संगणनक्षमता, साइबरसुरक्षा, विभिन्नानां प्रणालीनां परस्परसमन्वयः, विस्तारक्षमता, कौशलं, उत्तरदायित्वपूर्णः कृत्रिमबुद्धिप्रयोगश्च इत्यादयः विषयाः चर्चिताः।
सार्वम्संस्थायाः सहसंस्थापकः डॉ. विवेक राघवन् भारतीयसन्दर्भे शीघ्रं परिवर्तमानस्य कृत्रिमबुद्धेः परिदृश्यस्य तथा तेन जन्यमानानाम् अवसरानां विषये स्वविचारान् प्रस्तुतवान्। गूगलसंस्थायाः नितिन् गुप्तः तथा इन्टेलसंस्थायाः प्रभास् हरलापुरः कृत्रिमबुद्ध्यै आवश्यकानां प्रौद्योगिकीनां तथा मूलभूतसंरचनायाः विषये उद्योगजगतः दृष्टिकोणं प्रस्तुतवन्तौ।
रेलटेलसंस्थायाः अध्यक्षः प्रबन्धनिदेशकश्च सञ्जयकुमारः उक्तवान् यत् कृत्रिमबुद्धिः संस्थानां कार्यप्रणाल्यां परिवर्तनं कर्तुं सेवायाः गुणवत्तां च वर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहति। शासकीयसंस्थासु कृत्रिमबुद्धेः प्रयोगाय तादृशानां व्यावहारिकानां विस्तारयोग्यानां च प्रयोगप्रकरणानां चयनम् आवश्यकम् अस्ति, येन शासनव्यवस्थायां सार्वजनिकसेवासु च मापनीयः सुधारः आनेतुं शक्येत।
---------------
Hindusthan Samachar / Dheeraj Maithani