Enter your Email Address to subscribe to our newsletters


जौनपुरम्, २६ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापार्टी-दलस्य जनपदैक-कस्य महत्त्वपूर्णा संगठनात्मिका सभा शनिवासरे जनपदभाजपाकार्यालये आयोजिता। सभायाः अध्यक्षतां जनपदाध्यक्षः अजीतप्रजापतिः कृतवान् तथा सञ्चालनं जनपदमहामन्त्री अजयसिंहः कृतवान्। मुख्यातिथिः प्रदेशोपाध्यक्षः शङ्करगिरिः कार्यकर्तॄन् संगठनस्य सुदृढीकरणाय सक्रियतया समर्पणभावेन च कार्यं कर्तुम् आह्वानं कृतवान्।
सभां सम्बोधयन् शङ्करगिरिः अवदत् यत् भाजपायाः प्रत्येकं कार्यकर्ता संगठनस्य वास्तविकशक्तिः अस्ति। केन्द्रस्य प्रदेशसर्वकारस्य च जनकल्याणकारी-योजनाः समाजस्य अन्तिमव्यक्तिपर्यन्तं प्रापयितुं प्राथमिकता अस्ति। तेन आगामीसंगठनात्मक-कार्यक्रमाणां रूपरेखां प्रस्तूय कार्यकर्तॄन् पूर्णोत्साहेन निष्ठया च कार्ये संलग्नं भवितुम् आह्वानं कृतम्।
राज्यमन्त्री गिरीशचन्द्रयादवः अवदत् यत् परिचयात्मिका सभा केवलं परस्परपरिचयपर्यन्तं सीमिता नास्ति, अपितु इयं विचाराणां सङ्कल्पानां प्राथमिकतानां च आदानप्रदानस्य मञ्चः अस्ति। भाजपा राष्ट्रं प्रथमं मन्यमानेन सङ्कल्पेन कार्यं कुर्वत् परिवारः अस्ति।
राज्यसभासदस्या सीमाद्विवेदी अवदत् यत् संगठनस्य शक्तिः कार्यकर्तॄणां परिश्रमे निहिता अस्ति। क्षेत्रस्य विकासाय, महिलासशक्तीकरणाय युवानां च उज्ज्वलभविष्याय सर्वैः मिलित्वा प्रयत्नः करणीयः।
विधायकः रमेशमिश्रः अवदत् यत् एतादृशाभिः सभाभिः परस्परसमन्वयः सुदृढो भवति तथा धरातलीयस्थित्याः आधारेण उत्तमकार्ययोजनां निर्मातुं साहाय्यं भवति। विधायकः रमेशसिंहः अवदत् यत् कार्यकर्तारः दलस्य मेरुदण्डा: सन्ति। शिक्षा, स्वास्थ्यं, मार्गनिर्माणं स्वरोजगारश्च तस्य प्राथमिकताः सन्ति।
वरिष्ठनेता कृपाशङ्करसिंहः अवदत् यत् भाजपायाः इतिहासः त्यागस्य तपस्यायाः जनसेवायाश्च इतिहासः अस्ति। जनपदाध्यक्षः अजीतप्रजापतिः अवदत् यत् प्रदेशनेतृत्वस्य निर्देशानां मण्डलस्तरात् मतदानकेन्द्रस्तरपर्यन्तं प्रभावीरूपेण पालनं कारयिष्यते। संगठनं अधिकं सुदृढं कर्तुं पदाधिकारिणः निरन्तरं प्रयत्नशीलाः सन्ति।
सभायां जनपदमहामन्त्री अजयशङ्करदुबे, पीयूषगुप्तः, सन्दीपतिवारी, पङ्कजमिश्रः, राजपटेलः, परविन्दचौहानः, अमित-श्रीवास्तवः, विनयसिंहः, अजयसरोज़ः, नीरजमौर्यः, पुष्पानिषादः, सन्तोषमिश्रः, राजकेशरपालः, धर्मेन्द्रमिश्रः, अंशूनीरज-मौर्यः, राजेशगुप्तः, सुधांशुसिंहः, विकास-शर्मा, रीताजायसवालः, मम्मनयादवः, सत्येन्द्रसिंहः, आमोदसिंहः, रोहनसिंहः, अमितपाठकः, रागिनीसिंहः, नरेन्द्र-उपाध्यायः, अनिलगुप्तः, मेराजहैदरः, सञ्जीवशर्मा इत्यादयः मण्डलाध्यक्षाः अन्ये च पदाधिकारिणः उपस्थिताः आसन्।
------------------------------------------------------------
Hindusthan Samachar / Divya Ranjan