रविवासरे उद्घाटिताः भविष्यन्ति धनागारशाखाः, २८ तः ३० सेप्टेम्बरपर्यन्तं त्रिदिवसीय: विरोध:
— विरोधप्रदर्शनात् पूर्वं आवश्यकानि धनागारकार्याणि सम्पादयितुं ग्राहकेभ्यः सन्देशैः परामर्शः नवदिल्ली, २६ सेप्टेम्बरमासः (हि.स.)। सार्वजनिकक्षेत्रस्य बैंककर्मचारिणां २८ तः ३० सेप्टेम्बरपर्यन्तं प्रस्ताविता त्रिदिवसीया राष्ट्रव्यापी विरोधप्रदर्शनं
बैंक के लोगो का प्रतीकात्मक चित्र


— विरोधप्रदर्शनात् पूर्वं आवश्यकानि धनागारकार्याणि सम्पादयितुं ग्राहकेभ्यः सन्देशैः परामर्शः

नवदिल्ली, २६ सेप्टेम्बरमासः (हि.स.)। सार्वजनिकक्षेत्रस्य बैंककर्मचारिणां २८ तः ३० सेप्टेम्बरपर्यन्तं प्रस्ताविता त्रिदिवसीया राष्ट्रव्यापी विरोधप्रदर्शनं मासस्य अन्तिमसप्ताहे ग्राहकेभ्यः कठिनतां जनयितुं शक्नोति। अस्मिन् मध्ये बैंकैः ग्राहकेभ्यः हड्तालात् पूर्वमेव आवश्यकानि धनागारकार्याणि सम्पादयितुं परामर्शः दत्तः, येन तेभ्यः कापि असुविधा न भवेत्।

युनाइटेड फोरम ऑफ बैंक यूनियन्स इत्यनेन २८ सेप्टेम्बरमासात् त्रिदिवसीयायाः राष्ट्रव्यापिन्याः विरोध-प्रदर्शनस्य आह्वानं कृतम् अस्ति। तद् पूर्वं २६ सेप्टेम्बरमासे मासस्य चतुर्थे शनिवासरे बैंकाः बन्दाः भविष्यन्ति। किन्तु २७ सेप्टेम्बरमासे रविवासरस्य अवकाशः भवति, तथापि धनागारशाखाः उद्घाटिताः भविष्यन्ति। अतः २८ तः ३० सेप्टेम्बरपर्यन्तं निरन्तरं त्रिदिनं धनागारशाखासु कार्यं प्रभावितं भविष्यति।

अस्मिन् मध्ये सार्वजनिकक्षेत्रस्य प्रमुखधनागारेषु अन्यतमेन स्टेट बैंक ऑफ इण्डिया इत्यनेन सह कतिपयैः प्राचीनैः निजीयधनागारै: ग्राहकेभ्यः आवश्यकानि धनागायकार्याणि विरोध-प्रदर्शनात् पूर्वमेव सम्पादयितुं परामर्शः दत्तः, येन तेभ्यः असुविधा न भवेत्। एसबीआई-द्वारा प्रेषिते सन्देशे उक्तम् अस्ति— “एसबीआई-धनागारशाखाः २७ सेप्टेम्बरमासे उद्घाटिताः भविष्यन्ति। स्वस्य धनागारसम्बद्धानाम् आवश्यकतानां पूर्तये कामपि शाखां गच्छन्तु।”

उल्लेखनीयं यत् धनागारसंघै: पञ्च कार्यदिवसानां धनागारकार्यव्यवस्थायाः कार्यान्वयनम् इत्यादीनां विभिन्नानां याचनानां विषये विरोधप्रदर्शनस्य आह्वानं कृतम् अस्ति। धनागाराणां त्रिदिवसीय-विरोधप्रदर्शनस्य समये धनागारशाखासु धनराशेः निक्षेपणं निष्कासनं, चेक्-परिशोधनम् अन्याः सेवाश्च प्रभाविताः भवितुम् आशङ्क्यन्ते। ये ग्राहकाः शाखां गत्वा धनागारसम्बद्धानि कार्याणि सम्पादयितुम् इच्छन्ति, तेभ्यः असुविधा भवितुं शक्नोति।

Hindusthan Samachar / Divya Ranjan