‘कॉकरोच जनता पार्टी’ इति नाम परिवर्त्य ‘इस्तीफा जनता पार्टी’ इति नाम कुर्यात् - अठावले
जयपुरम्, २६ सेप्टेम्बरमासः (हि.स.)। केन्द्रीय-सामाजिक-न्यायाधिकारिता-राज्यमन्त्री तथा रिपब्लिकन्-पार्टी-ऑफ्-इण्डियायाः राष्ट्रियाध्यक्षः रामदासः अठावले शनिवासरे पिङ्कसिटी-प्रेस-क्लब इत्यस्मिन् सञ्चालिते पत्रकारसंवादे एसआईआर-विषये मुख्यनिर्वाचनायुक्
कॉकरोच जनता पार्टी’ नाम बदलकर ‘इस्तीफा जनता पार्टी’ रख ले: अठावले


जयपुरम्, २६ सेप्टेम्बरमासः (हि.स.)। केन्द्रीय-सामाजिक-न्यायाधिकारिता-राज्यमन्त्री तथा रिपब्लिकन्-पार्टी-ऑफ्-इण्डियायाः राष्ट्रियाध्यक्षः रामदासः अठावले शनिवासरे पिङ्कसिटी-प्रेस-क्लब इत्यस्मिन् सञ्चालिते पत्रकारसंवादे एसआईआर-विषये मुख्यनिर्वाचनायुक्तस्य ज्ञानेशकुमारस्य त्यागपत्रस्य मागं प्रति कॉकरोच-जनता-पार्टीं व्यङ्ग्येन आलोचितवान्। सः अवदत् यत् दलं स्वनाम परिवर्त्य ‘इस्तीफा जनता पार्टी’ इति नाम धारयेत्। सीजेपी-दलेन ज्ञानेशकुमारात् त्यागपत्रस्य कृते ४८ होराणां समयसीमा निर्धारिता अस्ति।

अठावले अवदत् यत् नीट्-प्रश्नपत्र-प्रसरणस्य आन्दोलनस्य समये सीजेपी चर्चायाम् आगता आसीत्, किन्तु प्रत्येकस्मिन् विषये त्यागपत्रस्य याचना उचितं न भवति। सः निर्वाचनायोगस्य एसआईआर-प्रक्रियायाश्च समर्थनं कुर्वन् अवदत् यत् आयोगः स्वतन्त्रतया निष्पक्षतया च कार्यं करोति। तेन उक्तं यत् एसआईआर-प्रक्रियायाः उद्देश्यं मतदाता-सूच्यां विद्यमानानाम् अपात्राणां नाम्नां निष्कासनं तथा पात्राणां नाम्नां समावेशनम् अस्ति। मुख्यनिर्वाचनायुक्तस्य उपरि आरोपितानाम् आरोपाणां विषये सर्वकारः अन्वेषणं कारयिष्यति।

राहुलगान्धिनः विषये आरोपं कुर्वन् अठावले अवदत् यत् काङ्ग्रेस-दलस्य विजये ईवीएम्-विषये प्रश्नाः न उत्थाप्यन्ते, किन्तु एनडीए-दलस्य विजये ईवीएम्-यन्त्राणि उत्तरदायित्वेन निर्दिश्यन्ते। अठावले उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी पञ्चदश वर्षाणि यावत् प्रधानमन्त्रीरूपेण पदे स्थास्यति तथा च २०२९ तमे वर्षे अपि एनडीए-सर्वकारस्यैव गठनं भविष्यति।

/ अंशु गुप्ता