Enter your Email Address to subscribe to our newsletters


चिराङ्गम् (असम), २६ सेप्टेम्बरमासः (हि.स.)। नगर-राजभाषा-कार्यान्वयन-समितेः बङ्गाईगाँव इत्यस्य तत्त्वावधाने तथा हिन्दुस्तान-प्रकाशनस्य, जयपुरस्य च सहयोगेन आदर्शविद्यालये, बिजनीनगरे हिन्दीपुस्तकप्रदर्शिनी आयोजिता। विद्यार्थिषु हिन्दीभाषायाः, साहित्यस्य पठन-संस्कृतेश्च प्रति रुचिं प्रेम च विकसितुम् अस्याः प्रदर्शिन्याः मुख्योद्देश्यं आसीत्।
प्रदर्शन्यां हिन्दी-साहित्यस्य विविधविधा-सम्बद्धानां पुस्तकानाम् आकर्षकः संग्रहः प्रदर्शितः। विद्यालयस्य विद्यार्थिनः उत्साहपूर्वकं प्रदर्शिन्याः अवलोकनं कृतवन्तः तथा स्वाभिरुच्यनुसारं विविध-पुस्तकानां विषये सूचनां प्राप्तवन्तः। बहुसंख्यकाः विद्यार्थिनः रोचमानानां पुस्तकानां चयनं कृत्वा हिन्दी-साहित्यस्य विविधां दुनियां प्रति परिचिताः अभवन्। प्रदर्शिन्याः विशेषाकर्षणं हिन्दीभिन्न-भाषाभाषिषु विद्यार्थिषु हिन्दीभाषां साहित्यं च प्रति उत्साहः आसीत्।
विद्यार्थिनः हिन्दीपुस्तकेषु जिज्ञासां प्रकटयन्तः विविधपुस्तकानां विषयवस्तुं साहित्यिकमहत्त्वं च ज्ञातवन्तः। अनेन एतदपि दृष्टं यत् हिन्दीभाषा विभिन्नभाषिकानां सांस्कृतिकसमुदायानां च मध्ये संवादस्य सम्पर्कस्य च माध्यमं भवति। अस्मिन् अवसरे युवाकविः, रङ्गकर्मी तथा चर्चितस्य ‘पुस्तकप्रेम’ इति लेखस्य लेखकः मो. रहमानः पुस्तकप्रदर्शिन्याम् उपस्थितः भूत्वा विद्यार्थिनां मार्गदर्शनं कृतवान्। तेन विद्यार्थिनः नियमितरूपेण पुस्तकपठनं कर्तुं तथा साहित्यस्य माध्यमेन स्वज्ञानं सृजनात्मकचिन्तनं च समृद्धं कर्तुं प्रेरिताः।
विद्यालयस्य शिक्षकैरपि पुस्तकप्रदर्शिन्याः प्रशंसा कृता। तैः उक्तं यत् एतादृशानि आयोजनानि विद्यार्थिषु पठनस्य अभ्यासं विकसितुं तथा हिन्दीभाषायाः साहित्यस्य च प्रति सकारात्मकदृष्टिकोणं विकसितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। प्रदर्शिन्याः माध्यमेन विद्यार्थिभ्यः पुस्तकानां समीपम् आगन्तुं स्वज्ञानस्य क्षेत्रं विस्तृतं कर्तुं च अवसरः प्राप्तः।
-----------------------------------------------
Hindusthan Samachar / Divya Ranjan