युवासंवादे नीरजसिंहः अवदत्—लक्ष्यं निर्धार्य अग्रे गच्छन्तु, सेवाभावनां जीवनस्य भागं कुर्वन्तु
झाँसी, २६ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य झाँसीनगरे शिवाजीनगरस्थे फ्यूचर-कुल्कोचिङ्ग-संस्थाने शनिवासरे ‘सेवासङ्कल्प-अभियानस्य’ अन्तर्गतं ‘युवासंवादः’ कार्यक्रमः आयोजितः। कार्यक्रमे युवभिः विद्यार्थिभिश्च शिक्षा, ऊर्जा, सेवा, राष्ट्रनिर्माणं
युवा संवाद में नीरज सिंह


झाँसी, २६ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य झाँसीनगरे शिवाजीनगरस्थे फ्यूचर-कुल्कोचिङ्ग-संस्थाने शनिवासरे ‘सेवासङ्कल्प-अभियानस्य’ अन्तर्गतं ‘युवासंवादः’ कार्यक्रमः आयोजितः। कार्यक्रमे युवभिः विद्यार्थिभिश्च शिक्षा, ऊर्जा, सेवा, राष्ट्रनिर्माणं च इत्यादिषु विषयेषु संवादः कृतः। कार्यक्रमस्य मुख्यातिथिः भाजपायाः उत्तरप्रदेशस्य प्रदेशोपाध्यक्षः नीरजसिंहः आसीत्।

कार्यक्रमे भाजपायाः जनपदाध्यक्षः प्रदीपपटेलः, जनपदोपाध्यक्षः नेहिलसिंहई तथा उत्तरप्रदेश-सहकारी-बैङ्कस्य निदेशकः आशीषोपाध्यायः अपि उपस्थिताः आसन्। फ्यूचर-कुल्-परिवारस्य पक्षतः बृजेन्द्रयादवः, फ्यूचर-कुल्-महा-विद्यालयस्य प्राचार्यः रामजीयादवः, शिक्षकाः कर्मचारीवर्गश्च उपस्थिताः आसन्। कार्यक्रमस्य सञ्चालनं राहुलद्विवेदी कृतवान्।

संवादस्य समये नीरजसिंहः विद्यार्थिभिः सह प्रत्यक्षं संवादं कृतवान्। तेन युवानः सकारात्मकया ऊर्जया सह अग्रे गन्तुं, जीवने स्पष्टं लक्ष्यं निर्धारितुं तथा शिक्षया सह समाजस्य राष्ट्रं च प्रति स्वदायित्वं ज्ञातुं प्रेरिताः। तेन ‘सेवासङ्कल्प-अभियानस्य’ उद्देश्यानां विषये प्रकाशं क्षिपन् युवभ्यः सेवाभावनां जीवनस्य भागं कर्तुम् आह्वानं कृतम्।

कार्यक्रमे विद्यार्थिभिः शिक्षाजीवनसम्बद्धेषु विविधेषु विषयेषु प्रश्नाः पृष्टाः। नीरजसिंहेन विद्यार्थिनां प्रश्नानां सहजतया उत्तराणि दत्त्वा तान् निरन्तरं शिक्षितुं आत्मविश्वासेन च अग्रे गन्तुं प्रेरिताः। केचन विद्यार्थिनः पृष्टानां प्रश्नानाम् उत्तराणि अपि दत्तवन्तः। तेषाम् उत्साहवर्धनं कुर्वद्भिः आयोजकैः तेभ्यः उपहाराः प्रदत्ताः। अनेन विद्यार्थिषु विशेषः उत्साहः दृष्टः।

कार्यक्रमस्य अन्ते प्रोफेसरः सुनील-काविया अतिथीनां, विद्यार्थिनां, शिक्षकाणां समस्तकर्मचारिवर्गस्य च प्रति आभारं प्रकटितवान्। आयोजकैः उक्तं यत् युवासंवादस्य उद्देश्यं विद्यार्थिषु सकारात्मकचिन्तनस्य, आत्मविश्वासस्य, ऊर्जायाः सेवाभावनायाश्च वर्धनम् अस्ति।

--------------------------------------------------

Hindusthan Samachar / Divya Ranjan