यूरोपीयदेशेभ्यः विरुद्धं सैन्यकार्यवाहीं कर्तुं रूसदेशस्य सज्जता नास्ति - पुतिनः
सेण्टपीटर्सबर्गम्, २६ सेप्टेम्बरमासः (हि.स.)। रूसदेशेन उक्तं यत् मास्कोनगरं यूरोपीयदेशानां विरुद्धं कस्यापि सैन्यकार्यवाहीं कर्तुं सज्जतां न करोति। राष्ट्रपतिः व्लादिमीरपुतिनः रूसतः सम्भावितसंकटसम्बन्धिनः पाश्चात्त्यदेशानां चिन्तावर्धनस्य ज्ञात्वा
रूस के राष्ट्रपति व्लादिमीर पुतिन  (फाइल फाेटाे)


सेण्टपीटर्सबर्गम्, २६ सेप्टेम्बरमासः (हि.स.)। रूसदेशेन उक्तं यत् मास्कोनगरं यूरोपीयदेशानां विरुद्धं कस्यापि सैन्यकार्यवाहीं कर्तुं सज्जतां न करोति। राष्ट्रपतिः व्लादिमीरपुतिनः रूसतः सम्भावितसंकटसम्बन्धिनः पाश्चात्त्यदेशानां चिन्तावर्धनस्य ज्ञात्वा क्रियमाणः प्रयासः इति वर्णितवान्।

रूसस्य अन्ताराष्ट्रियसमाचारदूर-दर्शनजालस्य ‘रशिया टुडे’ इत्यस्य अनुसारं सेण्टपीटर्सबर्गनगरे आयोजितस्य द्वादशस्य ‘युनाइटेड कल्चर फोरम’ इत्यस्य अवसरे सञ्चारमाध्यमैः सह वार्तालापे पुतिनः अवदत् यत् यूरोपीयदेशाः यूक्रेनदेशाय समर्थनं निरन्तरं दातुं चिन्तां वर्धयन्ति। तेन यूरोपे विद्यमानानाम् आक्रामकपक्षाणां विषये आरोपः कृतः यत् ते रूसस्य विकासं अवरोद्धुं यूक्रेनस्य उपयोगं कुर्वन्ति।

पुतिनः एस्टोनियादेशस्य रक्षामन्त्री हानो पेवकुरस्य टिप्पणीन् उकसावपूर्णाः अवदत्, येन रूसदेशेन सह सम्भावितसंघर्षस्य विषये टिप्पणी कृता आसीत्। पुतिनः तां केवलं राजनैतिकनाटकम् इति वर्णितवान्।

राष्ट्रपतिः यूक्रेनदेशेन सह पुनः वार्तायाः सम्भावनायाः विषये अपि चर्चां कृतवान्। सः अवदत् यत् मास्कोनगरं अस्मिन् विषये किमपि निर्णयं रूसस्य राष्ट्रियहितान् ध्याने निधाय एव करिष्यति। पुतिनस्य दावानुसारं यूक्रेनदेशः युद्धविरामस्य सम्भावनानां विषये सक्रियतया चर्चां करोति। तत्र ऊर्जामूलभूतसंरचनासु आक्रमणं निरोद्धुं तथा रूसस्य कृष्णसागर-तटस्य कथितां नाकाबन्दीं समाप्तुं इत्यादयः विषयाः सम्मिलिताः सन्ति। तेन आरोपितं यत् यूक्रेनदेशः रूसस्य विरुद्धम् आक्रमणानि निरन्तरं करोति।

राष्ट्रपतिना यूरोपस्य विरुद्धं रूसस्य आक्रमणसम्बद्धां कथितां योजनां विषयीभूतानि कथनानि अपि निराकृतानि। सः अवदत् यत् एतेषां कथनानां प्रयोगः यूरोपीयनागरिकाणां समक्षं यूक्रेनस्य विषये व्ययस्य निरन्तरतां न्याय्यीकर्तुं क्रियते।

Hindusthan Samachar / Divya Ranjan