Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 26 सितंबरमासः (हि.स.)।
एशियाईक्रीडाः २०२६ मध्ये भारतः शनिवासरे पदकतलिकायां हाङ्गकाङ्गेन सह संयुक्तरूपेण दशमं स्थानं प्राप्तवान्। समाचारलेखनसमये भारतस्य खातायां ४ सुवर्णपदकानि, ११ रजतपदकानि, १३ कांस्यपदकानि च सन्ति। एवं भारतस्य कुलं २८ पदकानि अभवन्। चीनः १०५ सुवर्णपदकैः सह कुलं १७१ पदकैः प्रथमस्थाने अस्ति, जापानः ३१ सुवर्णपदकैः सह १२४ पदकैः द्वितीयस्थाने, दक्षिणकोरियादेशः १४ सुवर्णपदकैः सह ७१ पदकैः तृतीयस्थाने च अस्ति।
भारतः शनिवासरे पुरुषकबड्डी तथा महिलाकबड्डी इति उभयोरपि स्पर्धयोः सुवर्णपदकं जित्वा पदकतलिकायां स्वस्थानं सुदृढीकृतवान्। पुरुषदलम् ईरानदेशं ४०-३४ इत्यङ्कैः पराजित्य सुवर्णपदकं प्राप्तवान्, महिलादलमपि ईरानदेशं ३७-३४ इत्यङ्कैः पराजित्य उपाधिं संरक्षितवती। एते भारतस्य तृतीयं चतुर्थं च सुवर्णपदके अभवताम्।
एथलेटिक्स्-क्रीडायां सावन बरवालः पुरुषमैराथनस्पर्धायां रजतपदकं प्राप्तवान्। सः २ घण्टा ११ मिनिट् ३७ सेकण्ड् इति नूतनेन राष्ट्रियविक्रमसमयेन एतद् उपलब्धिं प्राप्तवान्। अपरत्र महिलानां ५० मीटर् राइफल् थ्री पोजीशन् इति दलस्पर्धायां तिलोत्तमा सेन, विदर्शा के. विनोद तथा आशी चौकसे च रजतपदकं प्राप्तवत्यः।
स्क्वाश्-क्रीडायाः मिश्रितयुगलस्पर्धायां जोशना चिनप्पा तथा वेलवन सेन्थिलकुमारः कांस्यपदकं प्राप्तवन्तौ। भारतीययुगलम् उपान्त्यचक्रे पराजितं जातम्, ततः कांस्यपदकेन सन्तोषं कर्तुं प्रवृत्तम्।
भारतस्य पदकविवरणम् :
सुवर्णम् – ४
रजतम् – ११
कांस्यं – १३
कुलम् – २८
इयं पदकतलिका २६ सितम्बर्, शनिवासरस्य, सायं ४ वादनात् ३१ मिनिट् पर्यन्तं प्राप्तैःप्रदत्तैः आधृता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani