राष्ट्रियसेवायोजनस्य स्वयंसेवकैः ‘नमो सेवा’ विषये वीथीनाटिकायाः प्रस्तुति:
गोरखपुरम्, २६ सेप्टेम्बरमासः (हि.स.)। महायोगी गोरखनाथ-विश्वविद्यालये, गोरखपुरे सञ्चालितस्य राष्ट्रियसेवा-योजनस्य संस्कृतिमन्त्रालयस्य च संयुक्ततत्त्वावधाने शनिवासरे ‘नमो सेवा: अनकही कहानियां, जन-जन तक सेवा, हर दिल तक विश्वास’ इति विषये पथनाटिकायाः
एमजीयूजी में ‘नमो सेवा : अनकही कहानियां’ विषयक नुक्कड़ नाटक प्रस्तुत करते विद्यार्थी।


गोरखपुरम्, २६ सेप्टेम्बरमासः (हि.स.)। महायोगी गोरखनाथ-विश्वविद्यालये, गोरखपुरे सञ्चालितस्य राष्ट्रियसेवा-योजनस्य संस्कृतिमन्त्रालयस्य च संयुक्ततत्त्वावधाने शनिवासरे ‘नमो सेवा: अनकही कहानियां, जन-जन तक सेवा, हर दिल तक विश्वास’ इति विषये पथनाटिकायाः प्रस्तुति: कृता। कार्यक्रमे प्रस्तुतया पथनाटिकया सेवा, समर्पणम्, जनसहभागिता समाजस्य प्रति उत्तरदायित्वं च इत्येते महत्त्वपूर्णाः विषयाः सृजनात्मकतया प्रभावशालिरूपेण च प्रस्तुताः। नाटकस्य माध्यमेन सन्देशः प्रसारितः यत् समाजे सकारात्मक-परिवर्तनम् आनेतुं सेवा, संवेदनशीलता सामूहिकसहभागिता च अत्यावश्यकी अस्ति।

कार्यक्रमस्य मुख्यातिथिः पिपराइचस्य विधायकः महेन्द्रपालसिंहः अवदत् यत् जागरूकाः युवानः एव समाजे सकारात्मकपरिवर्तनस्य वाहकाः भवन्ति। सेवाभावेन एव समाजस्य विश्वासः अर्जयितुं शक्यते। सः अवदत् यत् महायोगी गोरखनाथ-विश्वविद्यालयेन न केवलं शिक्षाक्षेत्रे प्रगतिः कृता, अपितु अत्रत्यैः विद्यार्थिभिः सामाजिकसरोकारैः सह सम्बद्धैः समाजं सकारात्मकदिशां प्रति नेतुं प्रशंसनीय: प्रयासोऽपि क्रियते।

अस्मिन् अवसरे भाजपामण्डलाध्यक्षः रामनरेश-निषादः, जिलापञ्चायत्-सदस्या सङ्गीतापासवानः, राष्ट्रियसेवायोजनस्य कार्यक्रमसमन्वयकः डॉ. धनञ्जयपाण्डेयः, अजयप्रकाशयादवः, डॉ. शशिकान्तसिंहः, डॉ. तरुणश्यामः, डॉ. विकाससिंहः, आयुषकुमारपाठकः, डॉ. अमितोपाध्यायः, डॉ. सन्दीपकुमारश्रीवास्तवः, रविनिषादः, अनिलपटेलः, डॉ. जयसिंहः च सहिताः औषधिनिर्माणसंकायस्य सर्वे शिक्षकाः बहुसंख्यकाः छात्राः च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan