Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २६ सेप्टेम्बरमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् रविवासरे केरले एकदिवसीययात्रां करिष्यति। अस्यां यात्रायां सः कोल्लम-तिरुवनन्तपुरमयोः आयोजितेषु विभिन्नेषु कार्यक्रमेषु भागं ग्रहीष्यति।
उपराष्ट्रपतिसचिवालयस्य अनुसारं, उपराष्ट्रपतिः कोल्लमस्थे माता अमृता-नन्दमयीमठे आयोजिते विश्वसेवादिवस-समारोहे सम्मिलिष्यति। अयं कार्यक्रमः मातु: अमृतानन्दमय्याः ७३तमे जन्मदिवसे आयोज्यते। समारोहे वार्षिककार्यक्रमैः सह अनेकेषां मानवसेवासम्बद्धानां उपक्रमा-णामपि शुभारम्भः भविष्यति।
राधाकृष्णन् तिरुवनन्तपुरमस्थस्य श्री-उथ्राडोमथिरुनल्-एसयूटी-चिकित्सा-विज्ञान-अकादम्याः दीक्षान्तसमारोहे मुख्यातिथिरूपेण सम्मिलिष्यति। अस्मिन् अवसरे सः विभिन्नेषु कार्यक्रमेष्वपि भागं ग्रहीष्यति।
Hindusthan Samachar / Divya Ranjan