Enter your Email Address to subscribe to our newsletters

मुंबई, 26 सितंबरमासः (हि.स.)।
सञ्जयलीलाभन्साली इत्यस्य बहुप्रतीक्षितायाः ‘लव एण्ड वार’ इति चलचित्रस्य विषये दर्शकानाम् उत्सुकता निरन्तरं वर्धमाना अस्ति। रणबीरकपूरस्य तथा आलियाभट्टस्य प्रथमदृश्यरूपाणां प्रकाशनानन्तरम् अधुना चलचित्रात् विक्की कौशलस्य द्वे पोस्टरचित्रे प्रकाशिते स्तः। पोस्टरचित्रे विक्की कौशलस्य रूपम् अत्यन्तं तीव्रम् प्रभावशालि च दृश्यते। हस्ते धूम्रपानदण्डं प्रज्वालकं च धारयतः तस्य रूपं पात्रस्य गाम्भीर्यं प्रभावं च प्रदर्शयति। तस्य गम्भीरदृष्टिः प्रभावशालि व्यक्तित्वं च पोस्टरचित्रं विशेषं कुर्वतः।
अस्मिन् चलचित्रे प्रथमवारं रणबीरकपूरः, आलियाभट्टा तथा विक्की कौशलः त्रयः अपि एकत्र रजतपटले दृश्यन्ते। त्रयाणाम् कलाकाराणां प्रकाशितेषु पोस्टरचित्रेषु तेषां पात्राणां विविधाः विशेषताः दृश्यन्ते। अनेन चलचित्रस्य कथां पात्राणि च प्रति दर्शकानाम् जिज्ञासा अधिका जाता अस्ति। विशेषतः विक्की कौशलस्य रूपं तस्य पूर्वप्रदर्शितेभ्यः चलचित्रपात्रेभ्यः भिन्नं दृश्यते। सञ्जयलीलाभन्सालीस्य भव्यचलचित्रनिर्माणशैल्यां तस्य एतादृशं रूपं चलचित्रस्य कथाजगति विशिष्टां तीव्रतां जनयतीव दृश्यते।
सञ्जयलीलाभन्सालीस्य निर्देशननिर्माणे निर्मीयमाणे ‘लव एण्ड वार’ इति चलचित्रे रणबीरकपूरः, आलियाभट्टा तथा विक्की कौशलः मुख्यभूमिकासु वर्तन्ते। चलचित्रं प्रति दीर्घकालात् दर्शकानाम् उत्सुकता वर्तते तथा क्रमशः प्रकाशितानि पोस्टरचित्राणि ताम् उत्सुकताम् अधिकाम् एव कुर्वन्ति। चलचित्रम् २०२७ तमस्य वर्षस्य जनवरीमासस्य एकविंशतितमे दिवसे विश्वव्यापिरूपेण हिन्दी, तमिल तथा तेलुगुभाषासु प्रदर्शयितुं सज्जमस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani