ग्रामं स्वीकृत्य गुरुकुलकाङ्गडी उच्चशिक्षायाः मार्गं सुकरं करिष्यति
हरिद्वारम्, २६ सेप्टेम्बरमासः (हि.स.)। गुरुकुलकाङ्गडी-समविश्वविद्यालयस्य प्राचीनभारतीयइतिहास-संस्कृति-पुरातत्त्वविभागः श्यामपुरक्षेत्रस्य सजनपुर-पीलीग्रामं स्वीकृत्य तत्रत्येभ्यः बालकेभ्यः बालिकाभ्यश्च उच्चशिक्षायै प्रोत्साहनं प्रदास्यति। विभागस्य
जन-जागृति कार्यक्रम के दौरान


हरिद्वारम्, २६ सेप्टेम्बरमासः (हि.स.)। गुरुकुलकाङ्गडी-समविश्वविद्यालयस्य प्राचीनभारतीयइतिहास-संस्कृति-पुरातत्त्वविभागः श्यामपुरक्षेत्रस्य सजनपुर-पीलीग्रामं स्वीकृत्य तत्रत्येभ्यः बालकेभ्यः बालिकाभ्यश्च उच्चशिक्षायै प्रोत्साहनं प्रदास्यति। विभागस्य विस्तारगतिविधेः अन्तर्गतं आयोजिते जनजागृतिकार्यक्रमे विभागाध्यक्षः प्रो. देवेन्द्रकुमारगुप्तः एतां सूचनां दत्तवान्।

प्रो. गुप्तः अवदत् यत् विश्वविद्यालयः स्वस्य समीपस्थेषु क्षेत्रेषु उच्चशिक्षायाः प्रोत्साहनाय प्रयत्नशीलः अस्ति। अस्यैव क्रमे ग्रामप्रधानायै रूब्यै विद्यार्थिभ्यः ग्रामे स्थानस्य व्यवस्थां कर्तुं आग्रहः कृतः। विभागस्य प्राध्यापकाः शोधच्छात्राश्च ग्रामं गत्वा विद्यार्थिभ्यः निःशुल्कशिक्षां प्रदास्यन्ति। तैः उच्चशैक्षणिकसंस्थासु प्रवेशाय मार्गदर्शनं प्रोत्साहनं च प्रदास्यते।

वरिष्ठप्राध्यापकः प्रभातकुमारः अवदत् यत् गुरुकुलस्य स्थापना काङ्गडीग्रामे एव अभवत् तथा क्षेत्रस्य जनानां विश्व-विद्यालयेन सह प्राचीनः सम्बन्धः अस्ति। सः अवदत् यत् गङ्गायां जलौघस्य आगमनेन अनन्तरं विश्वविद्यालयः वर्तमानस्थाने स्थापितः। अतः क्षेत्रस्य विद्यार्थिभिः गुरुकुलकाङ्गडी-विश्व-विद्यालये उच्चशिक्षायाः अवसराणां लाभः स्वीकरणीयः।

प्रो. रेनूशुक्ला छात्राभ्यः उच्चशिक्षायै अग्रे गन्तुमृ आह्वानं कृतवती। सा अवदत् यत् एकस्याः महिलायाः शिक्षितत्वेन सम्पूर्णं परिवारं शिक्षितं भवति। कार्यक्रमस्य सञ्चालनं डॉ. हिमांशुपण्डितेन कृतम्।

प्रो. दिलीपकुशवाहः सम्पर्ककार्यक्रमं विद्यार्थिनां विश्वविद्यालयस्य च मध्ये उपयोगिनी प्रयत्नरूपेण वर्णितवान्। अस्मिन् अवसरे प्रो. दीपागुप्ता, डॉ. रेखासिंहः, डॉ. प्राची, डॉ. चन्द्रशेखर-हंसराजनायकेन सह शोधच्छात्राः छात्राश्च अन्ये जनाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan