श्रीरामजन्मभूमि-आन्दोलनाय अशोकसिङ्घल-महोदयेन दत्ता निर्णायिका दिशा - योगी आदित्यनाथः
लक्ष्मणपुरम्, 27 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः विश्वहिन्दूपरिषदः केन्द्रीय-सङ्गठन-महामन्त्री मिलिन्द पराण्डे च रविवासरे लक्ष्मणपुरे श्रीरामजन्मभूमि-आन्दोलनस्य प्रणेतुः विश्वहिन्दूपरिषदः भूतपूर्व-अन्ताराष्ट्रिय-अध्
दीप प्रज्वलित करते मुख्यमंत्री


मंचासीन मुख्यमंत्री व मिलिंद परांडे


कार्यक्रम में उपस्थित कार्यकर्ता


अशोक सिंघल का डाक टिकट मुख्यमंत्री को सौंपते हुए


लक्ष्मणपुरम्, 27 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः विश्वहिन्दूपरिषदः केन्द्रीय-सङ्गठन-महामन्त्री मिलिन्द पराण्डे च रविवासरे लक्ष्मणपुरे श्रीरामजन्मभूमि-आन्दोलनस्य प्रणेतुः विश्वहिन्दूपरिषदः भूतपूर्व-अन्ताराष्ट्रिय-अध्यक्षस्य श्रद्धेयस्य अशोकसिङ्घलस्य जन्मशताब्दी-महोत्सवस्य शुभारम्भम् अकुरुताम्। अस्मिन् अवसरे मुख्यमन्त्री योगी आदित्यनाथः रविवासरे अवदत् यत् ये जनाः कदाचित् राममन्दिरस्य विरोधं कुर्वन्ति स्म रामभक्तेषु च गुलिका-प्रहारं करोति स्म, अद्य त एव आत्मानं रामभक्तान् प्रदर्शयितुं प्रयतन्ते। एषा विश्वहिन्दूपरिषदः वैचारिकी विजयः अस्ति।

​विकीर्णं हिन्दूसमाजम् एकस्मिन् मञ्चे आनयत् अशोकसिङ्घलः

मुख्यमन्त्री योगी अवदत् यत् १५२८ तमे वर्षे श्रीरामजन्मभूमौ मन्दिरस्य भञ्जनात् परं प्रायः ५०० वर्षाणि यावत् हिन्दूसमाजेन तस्याः मुक्तये सङ्घर्षः कृतः। सन्तैः, नागा-संन्यासिभिः, शिख-वीरैः, युवकैः महिलाभिश्च बलिदानानि दत्तानि। समाजे सामर्थ्यम् आसीत्, परन्तु शक्तिः विकीर्णा (विभक्ता) आसीत्। एनां शक्तिम् एकस्मिन् मञ्चे आनयनाय कार्यम् अशोकसिङ्घलेन कृतम्।

​सः अकथयत् यत् १९८२ तमे वर्षे विश्वहिन्दूपरिषदः दायित्व-प्राप्तेः तथा च १९८३ तमे वर्षे श्रीरामजन्मभूमि-मुक्तियज्ञ-समित्याः गठनात् अनन्तरं रामकार्यम् अशोकसिङ्घलस्य जीवनस्य ध्येयम् अभवत्। देशो वा विदेशः, वनवासिक्षेत्रं वा दलितबस्तिः, तस्य मुखे रामस्यैव नाम भवति स्म। ‘राम काजु कीन्हें बिनु मोहि कहां बिश्राम’ इति वचनं सः स्वजीवने अङ्गीकृतवान्।

​राममन्दिरेण सह समाजमपि अयोजयत्

मुख्यमन्त्री योगी अवदत् यत् अशोकसिङ्घलेन राममन्दिर-आन्दोलनेन सह समाजस्य एकत्रीकरणस्यापि अभियानं सञ्चालितम्। वनवासि-मलिन-बस्तिषु एकलमहाविद्यालयानां शृङ्खलायाः निर्माणे तस्य महती भूमिका आसीत्। पूर्वोत्तर-क्षेत्रस्य बालानां शिक्षायै गोरखनाथमन्दिरे स्थितात् विश्वहिन्दूपरिषदः कार्यालयात् अपि एकात् प्रकोष्ठात् व्यवस्था प्रारब्धा।

​सः १९९० तमस्य वर्षस्य अयोध्या-आन्दोलनं संस्मृत्य अवदत् यत् तत्कालीनः उत्तरप्रदेश-सर्वकारः रामभक्तेषु गुलिकाप्रहारं करोति स्म, तदा अशोकसिङ्घलः सत्तायाः पुरतः न नतमस्तकः अभवत्। २ नवम्बर् १९९० दिनाङ्के रामभक्तेषु यष्टि-प्रहारस्य गुलिका-वर्षणस्य च मध्येऽपि तस्य सिंहगर्जनं श्रुतम्। अद्य तस्य स्वप्नानां साकारं रूपम् अयोध्यायां भव्य-श्रीराममन्दिर-रूपेण दृश्यते।

​काङ्ग्रेस-सपा-वामपन्थिनां विरोधः कृतः

मुख्यमन्त्रिणा काङ्ग्रेस-पक्षस्योपरि भगवतः रामस्य कृष्णस्य च अस्तित्वम् अधिकृत्य न्यायालये प्रश्नानाम् उत्थापनस्यापि आरोपः कृतः। सः अवदत् यत् राममन्दिरस्य शिलान्यासे रामलल्लायाः प्राणप्रतिष्ठायां च निमन्त्रणं प्राप्य अपि एते जनाः न गतवन्तः, यतः तेभ्यः ‘मत-सञ्चयः’ दृश्यते स्म। अशोकसिङ्घलेन १९८० तमे दशके या ज्योतिः प्रज्वालिता, सा केवलं रामजन्मभूमिं यावत् सीमिता नासीत्, अपि तु भारतस्य मानबिन्दूनां पुनः प्रतिष्ठायाः दासतायाः चिह्नानां च समापनस्य अभियानम् आसीत्। अशोकसिङ्घलः अत एव स्मर्यते, यतः यत् सः उक्तवान् तत् कृत्वा प्रदर्शितवान्। वाणी तदैव मन्त्रः भवति, यदा वचने आचरणे च भेदः न स्यात्।

​राममन्दिर-आन्दोलनेन ‘नैरेटिव’ (विमर्शः) परिवर्तितः - पराण्डे

विश्वहिन्दूपरिषदः केन्द्रीय-सङ्गठन-महामन्त्री मिलिन्दपराण्डे अवदत् यत् अशोकसिङ्घलेन भव्य-राममन्दिर-निर्माणाय हिन्दूसमाजस्य शताब्दिभ्यः वर्तमानाम् आकाङ्क्षां पूरयितुं सम्पूर्णं जीवनम् अर्पितम्। श्रीरामजन्मभूमि-आन्दोलनेन हिन्दूसमाजे स्वपरिचयं प्रति गौरवम् अवर्धत। सः सामाजिक-समरसतायै वेदशिक्षायै च अशोकसिङ्घलस्य कार्याणि अपि अस्मर्यत्। तेन वेदविद्यालयानां स्थापना कारिता।

​अशोकसिङ्घलस्य सङ्घर्षः वन्दनीयः - श्रीकृष्ण शाह विद्यार्थी

कार्यक्रमाध्यक्षः जगद्गुरुः श्रीकृष्ण शाह विद्यार्थी महाराजः श्रीराममन्दिराय अशोकसिङ्घलस्य सङ्घर्षं वन्दनीयम् अवदत्। सः धर्मस्य मर्यादाः सिद्धान्तांश्च अक्षुण्णान् स्थापयित्वा समाजस्य एकत्रीकरणे बलं प्रादात्।

​अस्मिन् कार्यक्रमे जलशक्तिमन्त्री स्वतन्त्रदेव सिंहः, विधानपरिषदः सदस्यः डॉ. महेन्द्र सिंहः, भदन्तः शीलरत्नः, निर्मल सिंहः, महन्तः अवधेश दासः, महन्तः धर्मेन्द्र दासः, महन्ती दिव्या गिरिः, विश्वहिन्दूपरिषदः प्रान्त-अध्यक्षः कन्हैयालाल अग्रवालः, क्षेत्रीय-सङ्गठनमन्त्री गजेन्द्रः, क्षेत्रप्रचारप्रमुखः सुभाषः, प्रान्तप्रचारकः कौशलः, प्रान्तसमरसताप्रमुखः राजकिशोरः, भारती गान्धी तथा विश्वहिन्दूपरिषदः, बजरंगदलस्य, विविधानां सांस्कृतिक-सङ्गठनानां च पदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्।

---------------------

Hindusthan Samachar / अंशु गुप्ता