अशोकसिङ्घलः हिन्दुस्वाभिमानस्य शिखरपुरुषः आसीत् - दत्तात्रेय होसबाले
नवदेहली, 27 सितम्बरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य (आरएसएस) सरकार्यवाहः दत्तात्रेय होसबाले रविवासरे अवदत् यत् अशोकसिङ्घलस्य सम्पूर्णं जीवनं धर्मस्य राष्ट्रसेवाथाश्च कृते समर्पितम् आसीत्। सः हिन्दूसमाजे आत्मसम्मानस्य चेतनायाश्च सञ्चारं कर्ता
आरएसएस के सरकार्यवाह दत्तात्रेय होसबाले भारत मंडपम में अशोक सिंघल की जन्मशती समारोह को संबोधित करते हुए।


भारत मंडपम में केन्द्रीय मंत्री अमित शाह के साथ अन्य लोग मौजूद।


नवदेहली, 27 सितम्बरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य (आरएसएस) सरकार्यवाहः दत्तात्रेय होसबाले रविवासरे अवदत् यत् अशोकसिङ्घलस्य सम्पूर्णं जीवनं धर्मस्य राष्ट्रसेवाथाश्च कृते समर्पितम् आसीत्। सः हिन्दूसमाजे आत्मसम्मानस्य चेतनायाश्च सञ्चारं कर्ता यथार्थः शिखरपुरुषः आसीत्।

सरकार्यवाहः दत्तात्रेय होसबाले अद्य देहलीस्थे भारतमण्डपम्-भवने आयोजिते विश्वहिन्दूपरिषदः (विहिप) भूतपूर्व-अन्ताराष्ट्रिय-अध्यक्षस्य तथा च रामजन्मभूमि-आन्दोलनस्य प्रमुखसूत्रधारस्य अशोकसिङ्घलस्य जन्मशताब्दीवर्ष-समारोहे सम्बोधनम् अकरोत्।

भगवद्गीतायाः अष्टादशाध्यायम् उल्लिखन् सः अवदत्, सः यथार्थार्थे 'मुक्तसङ्गः', 'अनहंवादी' तथा च 'धृत्युत्साहसमन्वितः' कार्यकर्ता आसीत्, यस्मै पदस्य प्रतिष्ठायाः वा कोऽपि मोहः नासीत्, यश्च सिद्धौ असिद्धौ वा कदापि न व्यचलित। सः केवलम् एकः आन्दोलनकारी नासीत्, अपि तु सङ्गठनस्य, सङ्घर्षस्य, समन्वयस्य च अनुपमः सङ्गमः आसीत्। निर्णयग्रहणे सः वज्रवत् दृढः आसीत्, तत्रैव समाजस्य सङ्कटं वेदनां च दृष्ट्वा तस्य हृदयं नवनीतमिव द्रवीभवति स्म। एकेन सम्पन्नेन सुशिक्षितेन च परिवारेण आगत्य अपि सः सङ्घस्य प्रचारकरूपेण सम्पूर्णं जीवनम् अतीव सरलताया राष्ट्रधर्मस्य च सेवायाम् अयापयत्।

होसबाले-महोदयः अवदत् यत् अशोकसिङ्घलस्य योगदानं केवलं रामजन्मभूमि-आन्दोलनपर्यन्तं सीमितं नासीत्, अपि तु सः समाजस्य संस्कृतेश्च विविधक्षेत्रेषु युगान्तकारीणि कार्याणि अकरोत्। सः प्रयागराजस्य सङ्गम-तटे समग्रात् देशात् १००० वेदपाठिनां विदुषां समागमम् अकारयत्। १९९४ तमस्य वर्षस्य नासिक-कुम्भे सन्तैः विद्वद्भिः च सह परामर्शं कृत्वा महिलाभिः वेदमन्त्रपाठस्य ऐतिहासिकम् आयोजनम् अकारयत्, समाजे प्रसृताः भ्रान्तीः च दूरीकृतवान्। राम-जानकी-यात्रायाः काले सुरक्षायाः आव्हानानि दृष्ट्वा सिङ्घलेन यूनां दलम् निर्मितम्, येन अग्रे गत्वा 'बजरङ्गदलस्य' रूपं गृहीतम्, तत् च धर्मस्य राष्ट्रस्य च रक्षायै समर्पितं सङ्घटनम् अभवत्।

सः राष्ट्रियैकात्मतायात्रायाः (१९८३-८४) प्रसङ्गम् उद्धृत्य अकथयत् यत् अशोकसिङ्घलेन विहिप-संस्थायां दायित्वग्रहणात् अनन्तरमेव गङ्गाजलस्य, भारतमातुः, गोमातुश्च प्रतीकौः सह देशव्यापी-यात्रायाः नेतृत्वं कृतम्, यस्याः विषये तत्कालीनमाध्यमेन 'हिन्दूसमाजस्य कुण्डलिनीशक्तेः जागरणम्' इति कथितम् आसीत्। काशीहिन्दूविश्वविद्यालयस्य (बीएचयू) नाम्नः 'हिन्दू' इति शब्दस्य निष्कासनस्य प्रयासानां प्रखरं विरोधं कृत्वा सः तत् न्यवारयत्। एतेन सहैव महामनसः मदनमोहनमालवीयस्य विचारान् अग्रे नेतुं 'मालवीय-मिशन्' इत्यस्य स्थापनाम् अकरोत्। रामसेतोः रक्षायै देशव्यापिनीं चेतनाम् अजागरयत्, १९८४ तमे वर्षे च पञ्जाबस्य सङ्कटकाले सन्तैः सह राष्ट्रियसद्भावनायात्राम् अनिष्कासयत्।

सरकार्यवाहः अवदत् यत् अयोध्यायां भव्यराममन्दिरस्य निर्माणं रामवनगमनमार्गे च १०८ रामस्तम्भानां प्रतिष्ठापनम् अशोकसिङ्घलस्य सङ्कल्पस्य, सामर्थ्यस्य, राष्ट्रभक्तेश्च अमराः प्रतीकाः सन्ति। सः आह्वानम् अकरोत् यत् मन्दिरनिर्माणानन्तरम् अधुना 'रामराज्यस्य' स्थापनायै निरन्तरं कार्यकरणमेव अशोकसिङ्घलं प्रति यथार्था श्रद्धाञ्जलिः भविष्यति।

---------------

Hindusthan Samachar / अंशु गुप्ता