Enter your Email Address to subscribe to our newsletters

गुरुग्रामे अशोकसिंघलस्य जन्मशताब्दीवर्षस्य भव्यः शुभारम्भः
मुख्यमन्त्री नायबसिंहसैनी मुख्यातिथिः, विहिपस्य केन्द्रीयमहासचिवः बजरंगलालः मुख्यवक्ता
गुरुग्रामः, २७ सितम्बरमासः (हि.स.)। विश्वहिन्दुपरिषदा हरियाणया श्रद्धेयस्य अशोकसिंघलस्य जन्मशताब्दीवर्षस्य शुभारम्भावसरे रविवासरे राज्यस्तरीयसमारोहस्य आयोजनं कृतम्। गुरुग्रामविश्वविद्यालयस्य सेक्टर-५१ परिसरे आयोजिते भव्यकार्यक्रमे परिषदः कार्यकर्तारः, सन्तसमाजस्य सदस्याः, सामाजिककार्यकर्तारश्च सहभागं कृतवन्तः।
कार्यक्रमे मुख्यातिथिरूपेण हरियाणस्य मुख्यमन्त्री नायबसिंहसैनी उपस्थितः आसीत्। मुख्यवक्तारूपेण विश्वहिन्दुपरिषदः केन्द्रीयमहासचिवः बजरंगलालबागडा उपस्थितः आसीत्। आचार्यः डॉ. लोकेशमुनिः अपि पावनसान्निध्यं प्रदत्तवान्। गुरुग्रामविश्वविद्यालयस्य कुलपतिः प्रो. सञ्जयकौशिकः सहिताः अनेकाः गणमान्यजनाः कार्यक्रमे उपस्थिताः आसन्।
स्वसम्बोधने बजरंगलालबागडाः उक्तवान् यत् अशोकसिंघलस्य जीवनं सङ्गठनस्य, साधनायाः, सांस्कृतिकस्वाभिमानस्य समाजजागरणस्य च उदाहरणम् आसीत्। सः सर्वान् सह नीत्वा सन्तानाम् आशीर्वादेन विश्वहिन्दुपरिषदः नूतनां दिशां प्रदत्तवान् तथा विभिन्नधर्मसम्प्रदायानां सन्तान् एकस्मिन् मञ्चे आनयत्।
बजरंगलालः उक्तवान् यत् सामाजिकोपेक्षां सहित्वा अपि ये हिन्दुधर्मं न त्यक्तवन्तः, ते धर्मयोद्धारः सन्ति। सः गोसंरक्षणे, वेदविज्ञाने रामजन्मभूम्याः आन्दोलनस्य च अशोकसिंघलस्य योगदानस्य अपि उल्लेखं कृतवान्।
गोवेदयोः विषये अशोकसिंघलस्य कार्याणाम् उल्लेखं कुर्वन् सः उक्तवान् यत् गौः केवलं दुग्धं न ददाति, अपितु गोमातुः प्राप्ताः उत्पादाः हिन्दुसमाजस्य उत्थानाय ग्रामेषु गोसंरक्षणाय च महत्त्वपूर्णाः सन्ति। गौः अस्माकं संस्कृतेः मेरुदण्डः अस्ति। अस्मिन् सन्दर्भे नागपुरे गो-अनुसन्धानकेन्द्रस्य स्थापनायाः तथा विश्वहिन्दुपरिषदा गोउत्पादानां विषये वैज्ञानिकानुसन्धानं उत्पादानां निर्माणं च कृत्वा तेषां महत्त्वं समाजस्य विश्वस्य च समक्षं स्थापयितुं कृतस्य कार्यस्य उल्लेखः कृतः।
मुख्यमन्त्री नायबसिंहसैनी अशोकसिंघलं महामानवरूपेण वर्णयन् उक्तवान् यत् वर्षपर्यन्तं चलने जन्मशताब्दीसमारोहे युवानः संस्कृत्या सह सम्बद्धाः भवेयुः। पर्यावरणसंरक्षणं सेवाकार्याणि च केन्द्रे स्थापयित्वा कार्यक्रमाः आयोजनीयाः इति सः उक्तवान्।
समारोहे क्षेत्रसङ्गठनमन्त्री नीरजधनोरिया, प्रान्तसङ्गठनमन्त्री राधेश्यामः, मन्त्री रावनरबीरसिंहः, महापौरः राजराणीमल्होत्रा तथा राष्ट्रियस्वयंसेवकसङ्घस्य विभिन्नसङ्गठनानां च पदाधिकारिणः उपस्थिताः आसन्। कार्यक्रमस्य सञ्चालनं प्रान्तमन्त्री यशवन्तशेखावतेन कृतम्।
अस्मिन्नवसरे प्रचारप्रसारविभागेन अशोकसिंघलस्य जीवनमाधारीता प्रदर्शनी अपि आयोजिता। डॉ. अश्विनीशर्मणा रचिता ‘गीताज्ञानम्’ इति पुस्तकस्य लोकार्पणमपि कृतम्।
Hindusthan Samachar / Dheeraj Maithani