Enter your Email Address to subscribe to our newsletters

रायगढ़म्, 27 सितंबरमासः (हि.स.)।
विश्वहिन्दुपरिषदः बजरङ्गदलस्य च संयुक्तप्रयासेन रविवासरे आर्षगुरुकुले तुरङ्गायां बृहत् स्वास्थ्यपरीक्षणशिबिरस्य कृषिमेलस्य च आयोजनं कृतम्।
रायगढस्य वरिष्ठचिकित्सकाः डॉ. प्रकाशमिश्रः, डॉ. ज्योत्स्ना अग्रवालः, डॉ. प्रभातपटेलः तथा अपेक्सचिकित्सालयतः डॉ. मनोजगोयलः, डॉ. राजकुमारगुप्तः, डॉ. मुकुन्दअग्रवालः तथा स्थानीयसामुदायिकस्वास्थ्यकेन्द्रं पुसौरतः डॉ. विनोदनायकः, डॉ. दिनेशकुमारनायकः एवं पाराचिकित्सकीयदलस्य सदस्याः संयुक्तरूपेण स्वास्थ्यशिबिरे उपस्थिताः आसन्। औषधिचिकित्सा, बालरोगचिकित्सा, अस्थिरोगचिकित्सा, स्त्रीरोगचिकित्सा, नेत्ररोगचिकित्सा इत्यादिषु क्षेत्रेषु रोगिणः शिबिरम् आगत्य निःशुल्कौषधिं, उपचारं परामर्शं च प्राप्तवन्तः। प्रातः दशवादनात् आरभ्य निरन्तरं रोगिणां पञ्जीकरणं, रक्तचापस्य, रक्तशर्करायाः, भारस्य च परीक्षणं कृतम्। ततः सम्बन्धितविशेषज्ञैः रोगिणां परीक्षणं कृत्वा समुचितं मार्गदर्शनं प्रदत्तम्।
शिबिरे आधुनिकचिकित्सापद्धत्या सह आयुर्वेदचिकित्सायाः अपि समावेशः कृतः आसीत्। तत्र डॉ. देवाशीषरायचौधरिणः मार्गदर्शने प्रातःकालादेव विभागस्य माध्यमेन विशिष्टौषधीयवनस्पतीभिः निर्मितस्य कषायस्य वितरणं कृतम्। सम्बन्धितरोगाणां निवारणाय आयुर्वेदिकचिकित्सासामग्री अपि निःशुल्कं वितरिता।
चिकित्सासेवया सह समसामयिककृषिसमस्यानां समाधानाय अपि शिबिरे व्यवस्था कृता आसीत्। कृषकाः वर्तमानकृषिसमस्याभिः सह शिबिरम् आगत्य समुचितौषधिं परामर्शं च प्राप्तवन्तः। अनुविभागीयकृष्यधिकारी हरीशराठौरस्य विकासखण्डकृष्यधिकारी रोहितपटेलस्य च नेतृत्वे शिबिरे एव मृदापरीक्षणस्य, प्रधानमन्त्रिकृषकसम्माननिधिसम्बन्धिसमस्यानां समाधानस्य, निःशुल्कौषधिवितरणस्य च व्यवस्था कृता आसीत्।
आर्षगुरुकुले तुरङ्गायाम् आयोजिते अस्मिन् विशेषशिबिरे प्रायः द्विशताधिकैः समस्याग्रस्तैः महिलापुरुषैः स्वास्थ्यसम्बन्धी लाभः प्राप्तः। शिबिरस्य उद्घाटनसत्रात् समापनपर्यन्तं गुरुकुलस्य सञ्चालकः आचार्यः राकेशकुमारः आयोजकमण्डलस्य यथायोग्यं सम्मानं कृत्वा आभारं व्यक्तवान्।
कार्यक्रमे गुरुकुलाश्रमस्य माता मल्लिका चतुर्भुजा, ग्रामपञ्चायततुरङ्गायाः सरपञ्चा विनोदिनी सुभाषप्रधाना, उपसरपञ्चः विवेकप्रधानः, ग्रामपञ्चायतमचिदायाः सरपञ्चः शिवगुप्तः, आश्रमस्य वरिष्ठसदस्यः घनश्यामपटेलः, जगन्नाथप्रधानः, विभूतिभूषणप्रधानः, दानदातृपरिवारतः डोलेश्वरगुप्तः, तेजरामगुप्तः च उपस्थिताः आसन्।
सफलस्य आयोजनस्य कृते गुरुकुलस्य सहायकसञ्चालकः राजेन्द्रआर्यः, डोलामणिविश्वालः, अमितप्रधानः, सूरजप्रधानः, ओमप्रकाशप्रधानः, मनोजप्रधानः, हरिआर्यः, विजयआर्यः, ओमआर्यः तथा प्रियांशुआर्यः विशेषरूपेण योगदानं दत्तवन्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani