Enter your Email Address to subscribe to our newsletters

भोपालम्, 27 सितम्बरमासः (हि.स.)। आई.आई.टी.-इन्दौरस्य प्राध्यापिका डॉ. नीलिमा सत्या अन्ताराष्ट्रिय-सम्मानं प्राप्तुम् इतोगता अस्ति। तस्याः चयनम् 'अमेरिकन जियोफिजिकल यूनियन' संस्थायाः २०२६ तमस्य वर्षस्य पुरस्काराय सञ्जातम्।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः आई.आई.टी.-इन्दौर-संस्थायाः जनपद-अभियान्त्रिकी-विभागे स्थितायै डॉ. नीलिमा सत्यायै प्रतिष्ठितस्य अन्ताराष्ट्रिय-सम्मानस्य 'अमेरिकन जियोफिजिकल यूनियन अवार्ड' इत्यस्य प्राप्तौ अभिनन्दनं शुभाशयान् च प्रादात्।
मुख्यमन्त्री डॉ. यादवः रविवासरे सामाजिक-पटले 'एक्स' इत्यत्र अवदत् यत् स्वकीयेन उत्कृष्टेन अनुसन्धानेन योगदानेन च प्रो. नीलिमा सत्या शिक्षायाः विज्ञानस्य च क्षेत्रे विशिष्टाम् अभिज्ञां निर्मितवती।
उल्लेखनीयम् अस्ति यत् अमेरिकन-जियोफिजिकल-यूनियन-पुरस्कारः पृथिव्याः, अन्तरिक्षस्य तथा च पर्यावरण-विज्ञानस्य क्षेत्रे उत्कृष्टाय योगदानाय, अभूतपूर्व-अनुसन्धानाय, नवाचाराय तथा च विज्ञान-सञ्चाराय दीयमानः विश्वस्य सर्वाधिक-प्रतिष्ठितः पुरस्कारः वर्तते।
नीलिमा सत्यायै देवेन्द्र लाल पदकम्
आई.आई.टी.-इन्दौरस्य प्राध्यापिका नीलिमा सत्या 'देवेन्द्र लाल मेमोरियल' इति पदकाय चिता। एतत् पदकं प्रतिवर्षं कस्मैचित् युव अथवा मध्य-वृत्ति वैज्ञानिकाय प्रदीयते। एतत् सम्मानं पृथिवी-विज्ञाने अन्तरिक्ष-विज्ञाने च उत्कृष्ट-अनुसन्धानाय लभ्यते। नीलिमासत्या भू-तान्त्रिक-अभियान्त्रिक्यां तथा च भूकम्पीय-सङ्कटे कार्यं करोति। तया विपद्-रोधिनि (आपदा-प्रतिरोधिनि) मूलभूत-संरचनासु अपि गहनम् अनुसन्धानं कृतम्। अपि च भू-सङ्कट-न्यूनीकरणस्य विधिषु अपि तस्याः कार्यं महत्त्वपूर्णं मन्यते। पदकेन सह सा ए.जी.यू.-संस्थायाः आजीवन-सदस्यत्वम् अपि प्राप्स्यति। एतत् कस्यापि वैज्ञानिकस्य कृते महती उपलब्धिः मन्यते।
आई.आई.टी.-इन्दौरस्य प्राध्यापिका डॉ. नीलिमासत्या देवराकोण्डा मूलरूपेण आन्ध्रप्रदेशस्य (चित्तूर-मण्डलस्य) निवासिनी वर्तते। सा स्वकीयां बि.टेक्.-उपाधिं श्रीवेङ्कटेश्वर-विश्वविद्यालयात् तिरुपतितः (आन्ध्रप्रदेशात्) समापयत्। तदनन्तरं सा आई.आई.टी.-देहल्याः स्वकीयाम् एम्.टेक्.- तथा च विद्यावाचस्पति (पीएच्.डी.)-शिक्षां प्राप्तवती। सा सम्प्रति आई.आई.टी.-इन्दौरस्य जनपद-अभियान्त्रिकी-विभागे 'इन्स्टीट्यूट चेयर प्रोफेसर'-रूपेण कार्यरता अस्ति तथा च इन्दौरे (मध्यप्रदेशे) निवसति। आई.आई.टी.-इन्दौरम् आगमनात् पूर्वं सा हैदराबादस्य अन्ताराष्ट्रिय-सूचना-प्रौद्योगिकी-संस्थाने (आईआईआईटी-हैदराबाद) सहायिका-प्राध्यापिका आसीत्। तत्र सा भूकम्प-अभियान्त्रिकी-अनुसन्धान-केन्द्रेण सम्बद्धा आसीत्। तया टोक्यो-विश्वविद्यालये, स्टट्गार्ट्-विश्वविद्यालये तथा च क्यूशू-विश्वविद्यालये आगन्तुक-अनुसन्धानकर्त्री (विजिटिङ्ग रिसर्चर)-रूपेण अपि कार्यं कृतम्। अयम् अनुभवः २०१३ तः २०२३ पर्यन्तस्य कालखण्डस्य अस्ति।
प्राध्यापिकायाः डॉ. नीलिमा सत्यायाः सहैव भारतीयः वैज्ञानिकः रॉक्सी मैथ्यू कोल्लः अपि अमेरिकन-जियोफिजिकल-यूनियन-संस्थायाः २०२६ तमस्य वर्षस्य पुरस्कारेभ्यः चितः। रॉक्सी-महोदयः जलवायु-सञ्चारस्य क्षेत्रे योगदानाय सम्मानितः भविष्यति, यदा तु प्रो. नीलिमा सत्या भूविज्ञानस्य क्षेत्रे अनुसन्धानाय सम्मानिता भविष्यति। अयम् अलङ्करण-समारोहः दिसम्बर-मासे सैन फ्रांसिस्को-नगरे आयोजिष्यते। अस्य पुरस्कारस्य अन्तर्गतं विजेत्रे पञ्चविंशति-सहस्रम् (२५,०००) अमेरिकीय-डॉलर्-रूप्यकाणां धनराशिः दीयते।
जलवायु-वैज्ञानिकः रॉक्सी मैथ्यू कोल्लः पुणे-नगरस्य भारतीय-ऋतुविज्ञान-संस्थाने (आईआईटीएम) कार्यं करोति। सः पूर्वमपि राष्ट्रिय-विज्ञान-पुरस्कारं (युवा) प्राप्तवान् अस्ति। अधुना सः ए.जी.यू.-संस्थायाः 'पावेल एस. मोलचानोव क्लाइमेट कम्युनिकेशन्स प्राइज' इत्यस्मै चितः। एषः पुरस्कारः प्रतिवर्षं कस्मैचित् एकस्मै वैज्ञानिकाय दीयते। कोल्ल-महोदयः हिन्दु-महासागरस्य वर्धमान-तापमाने गम्भीरतया कार्यं कृतवान्। सः वर्षा-ऋतौ जायमानान् परिवर्तनान् अपि सूक्ष्मदृष्ट्या अङ्कितवान्। तस्य अनुसन्धाने समुद्र-पृष्ठस्य उष्णीभवनस्य उल्लेखः अपि वर्तते। सहैव चक्रवातानां प्रचण्ड-वृष्टेः च प्रभावेऽपि तेन कार्यं कृतम्।
उल्लेखनीयम् अस्ति यत् अमेरिकन-जियोफिजिकल-यूनियन (ए.जी.यू.) पृथिवी-अन्तरिक्ष-विज्ञानस्य संवर्धनाय कार्यरता एका अन्ताराष्ट्रिया वैज्ञानिकी संस्था वर्तते। अस्याः स्थापना १९१९ तमे वर्षे अमेरिकादेशे अभवत्। अस्याः मुख्यालयः वाशिङ्गटन्-डी.सी.-नगरे (अमेरिका) स्थितः अस्ति। अस्यां १३०-तः अधिक-देशानां ६०,०००-तः अधिकाः वैज्ञानिकाः, अनुसन्धानकर्तारः तथा च छात्राः सम्बद्धाः सन्ति। एषा संस्था पृथिव्याः, वायुमण्डलस्य, महासागरस्य, जलविज्ञानस्य, अन्तरिक्षस्य तथा च ग्रहविज्ञानस्य क्षेत्रे अनुसन्धान-कार्यं करोति। एषा संस्था विश्वस्मिन् प्रतिवर्षं वैज्ञानिक-सम्मेलनानि आयोजयति।
------------------
Hindusthan Samachar / अंशु गुप्ता