“विश्वबन्धुत्वाय मानवतायाः सेवायै च भवेत् भारतस्य उदयः” - दत्तात्रेय होसबोले
कोलकातानगरम्, २७ सितम्बरमासः (हि.स.)। ‘राम-शरद कोठारी स्मृति सङ्घ, कोलकाता’ इत्यस्य तत्त्वावधाने रविवासरे राष्ट्रिय-ग्रन्थागारस्य प्रेक्षागृहे राम-शरद कोठारी प्रतिभा सम्मान - २०२६ समारोहस्य भव्यम् आयोजनं कृतम्। अस्मिन् अवसरे राष्ट्रियस्वयंसेवकसङ्
कोलकाता के कार्यक्रम में दत्तात्रेय होसबोले और मुख्यमंत्री शुभेंदु अधिकारी एक साथ


कोलकातानगरम्, २७ सितम्बरमासः (हि.स.)। ‘राम-शरद कोठारी स्मृति सङ्घ, कोलकाता’ इत्यस्य तत्त्वावधाने रविवासरे राष्ट्रिय-ग्रन्थागारस्य प्रेक्षागृहे राम-शरद कोठारी प्रतिभा सम्मान - २०२६ समारोहस्य भव्यम् आयोजनं कृतम्। अस्मिन् अवसरे राष्ट्रियस्वयंसेवकसङ्घस्य (आरएसएस) सरकार्यवाहः दत्तात्रेय होसबोले तथा च पश्चिमवङ्गस्य मुख्यमन्त्री शुभेन्दु अधिकारी इत्यादयः बहवः गण्यमान्याः महानुभावाः उपस्थिताः आसन्।

कार्यक्रमे मुख्यवक्तृरूपेण स्वविचारान् प्रकटयन् आरएसएस-संस्थायाः सरकार्यवाहः दत्तात्रेय होसबोले अवदत् यत् भारतस्य उदयः जगतः उपरि शासनं कर्तुं न, अपि तु विश्वबन्धुत्वाय मानवतायाः सेवायै च भवेत्। सः अस्मिन् विषये बलं प्रादात् यत् भारतं विश्वपटले एकस्य वैभवशालिनः सामर्थ्यवतः च राष्ट्रस्य रूपेण उद्भवेत् तथा च समग्रस्य विश्वस्य नेतृत्वं कर्तुं सामर्थ्यं प्राप्नुयात्, एतदर्थं समाजस्य प्रत्येकं वर्गेण मिलित्वा प्रयासाः करणीयाः। सः अकथयत्, वयं शान्तये सौहार्दाय च जीवामः। भारतस्य एकता, अखण्डता, सांस्कृतिक-वैभवं च अक्षुण्णं तिष्ठेत्, एतदर्थं प्रत्येकं नागरिकेण सङ्कल्पं स्वीकृत्य कार्यं करणीयम्। होसबोले महोदयः देशस्य सांस्कृतिकाम् अभिज्ञां सुरक्षितां रक्षितुं युवानः, विशेषतः 'जेन् जी' (Gen Z) सन्ततिं राष्ट्रनिर्माणाय सक्रियरूपेण भागं ग्रहीतुं चाह्वयत्।

समारोहस्य मुख्यातिथिः मुख्यमन्त्री शुभेन्दु अधिकारी १९९० तमस्य वर्षस्य अयोध्यायां श्रीरामजन्मभूमि-आन्दोलने सर्वोच्चं बलिदानं दत्तवद्भ्यां राम-शरद-कोठारीभ्यां भावपूर्णां श्रद्धामञ्जलिम् अर्पितवान्। सः अवदत् यस्मिन् वयसि युवानः स्वजीविकायाः पारिवारिकजीवनस्य च विषये चिन्तयन्ति, तस्मिन् वयसि कोठारी-भ्रातृभ्यां धर्माय राष्ट्राय च स्वप्राणाः उत्सृष्टाः। युवापीढ्यां सनातनी-राष्ट्रवादी-चेतनायाः प्रसारे बलं ददन् मुख्यमन्त्री राज्यसर्वकारेण स्वीक्रियमाणान् विविधान् उपायान् उल्लिखितवान्। राज्यस्य जनसाङ्ख्यिक्याः घुसपैठ-समस्यायाश्च विषये चिन्तां प्रकटयन् सः आरोपम् अकरोत् यत् पूर्वतनस्य तृणमूल-काङ्ग्रेस-शासनस्य काले वङ्गस्य जनसाङ्ख्यिक्यां व्यापकं परिवर्तनम् आगतम्, यस्य संशोधनाय अधुना अपि बहूनि कार्याणि करणीयानि सन्ति। सः स्पष्टैः शब्दैः चेतावनीम् अयच्छत् यत् वङ्गे अधुना साधु-सन्तानाम् अपमानं कथमपि न सहिष्यते।

कोठारी-भ्रात्रोः नाम्ना भविष्यति कोलकातानगरे मार्गस्य नामकरणम्

एतेन सहैव मुख्यमन्त्रिणा कोलकातानगरे एकस्य मार्गस्य नामकरणं कोठारी-भ्रात्रोः नाम्ना कर्तुम् आश्वासनं दत्तं, महाविद्यालयेषु विश्वविद्यालयेषु च तयोः नाम्ना सम्मान-संस्थापनस्य विचारः अपि उल्लिखितः।

कार्यक्रमस्य अध्यक्षतां प्रसिद्धेन समाजसेविना युव-उद्योगपतिना ललित बेरीवाल-महोदयेन कृता। स्वकीये अध्यक्षीय-भाषणे सः अवदत् यत् वङ्गस्य प्रति-कणे सनातनः निहितः अस्ति, अधुना च समग्रे राज्ये सनातनस्य सुगन्धः प्रसर्तुम् आरब्धः।

माध्यमप्रभारी भागीरथ सारस्वतः न्यवेदयत् यत् अस्मिन् वर्षे शिक्षायाः, पर्यावरणस्य, गोसेवाक्षेत्रस्य च उत्कृष्टं कार्यं कृतवत्यः प्रतिभाः सम्भाविताः (सम्मानिताः)। शिक्षाक्षेत्रे पुरुलियायाः अयोध्या-पर्वतस्य (अयोध्या हिल्स) श्री ईश्वर चन्द्र हेम्ब्रमः, गोसेवाक्षेत्रे चाकुलियायाः (झारखण्ड) ध्यान-फाउण्डेशन्, पर्यावरण-वनसंरक्षणार्थं च ओडिशायाः केन्दुझारतः रमेश चन्द्र मिश्रः 'राम-शरद कोठारी प्रतिभा सम्मानेन' अलङ्कृताः।

समारोहस्य प्रारम्भः भारतमातुः हुतात्मनोः राम-शरद-कोठार्योश्च छायाचित्रे पुष्पाञ्जलिं समर्प्य अभवत्। सङ्घस्य सचिवः रजत चतुर्वेदी संस्थायाः परिचयम् उपास्थापयत्। अस्मिन् अवसरे विशिष्टातिथिरूपेण उद्योगपतिः अंशुल चमड़िया, सौरव दुगड़, संस्थाध्यक्षः राजेश अग्रवालश्च मञ्चे उपस्थिताः आसन्। कार्यक्रमस्य कुशलं सञ्चालनं सञ्जय मण्डलेन कृतम्, यदा तु कोठारी-भ्रात्रोः भगिनी पूर्णिमा कोठारी सर्वान् अतिथीन् प्रति धन्यवादं ज्ञापितवती। कार्यक्रमस्य समये पङ्कज चौधरी देश हमें देता है सब कुछ, हम भी तो कुछ देना सीखें इति गीतस्य भावपूर्णां प्रस्तुतिं दत्त्वा वातावरणं देशभक्त्या आपूरितवान्।

अस्मिन् भव्यसमारोहे आरएसएस-संस्थायाः वरिष्ठाः अधिकारिणः रामलालः, जलधर दा, सुनील पद गोस्वामी, अजय नन्दी, केन्द्रीयमन्त्री सुकान्त मजुमदारः, जोड़ासाङ्को-क्षेत्रस्य विधायकः विजय ओझा, भूतपूर्व-उपमहापौरा मीना देवी पुरोहित इत्यादयः महानगरस्य बहवः गण्यमान्याः नागरिकाः कार्यकर्तारश्च उपस्थिताः आसन्।

--------------------------

Hindusthan Samachar / अंशु गुप्ता