Enter your Email Address to subscribe to our newsletters


राज्ये प्रत्यागमनप्रवासे ४४ प्रतिशतं वृद्धिः
नवदिल्ली, २७ सितम्बरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी रविवासरे नवदेहलीस्थिते उत्तराखण्डसदने विभिन्नैः संस्थाभिः सम्बद्धैः प्रवासीउत्तराखण्डीयैः बुद्धिजीविभिश्च सह संवादं कृतवान्। सः उक्तवान् यत् राज्यस्य विकासयात्रायां प्रवासीउत्तराखण्डीयानां प्रबुद्धजनानां च महत्त्वपूर्णा भूमिका वर्तते तथा संवादसमये प्राप्तान् सुझावान् नीतिषु समावेशयिष्यते।
मुख्यमन्त्री उक्तवान् यत् सर्वकारः पर्यटनस्य, स्वरोजगारस्य, स्थानीयार्थिकक्रियाकलापानां सम्पर्कसुविधानां च विस्तारस्य माध्यमेन राज्यस्य विकासाय गतिं दातुं कार्यं करोति। सः प्रत्यावर्तनप्रवासं प्रोत्साहयितुं पर्वतीयक्षेत्रेषु रोजगारस्य स्वरोजगारस्य च अवसरान् वर्धयितुं आवश्यकता अस्ति इति प्रतिपादितवान्। मुख्यमन्त्रिणः अनुसारं राज्ये प्रत्यागमनप्रवासे ४४ प्रतिशतं वृद्धिः अभिलिखिता अस्ति।
सः उक्तवान् यत् राज्यस्य बजटः वर्धित्वा प्रायः १.१२ लक्षकोटिरूप्यकाणि अभवत्। देहलीदेहरादून आर्थिकमार्गस्य, विमानसेवानां विस्तारस्य तथा पन्तनगरस्थाने प्रस्तावितस्य हरितक्षेत्रविमानपत्तनस्य उल्लेखं कुर्वन् सः सम्पर्कसुविधां निवेशाय आर्थिकक्रियाकलापेभ्यश्च महत्त्वपूर्णां प्रतिपादितवान्।
मुख्यमन्त्री युवानां रोजगारस्य सन्दर्भे उक्तवान् यत् नियुक्तिप्रक्रियासु पारदर्शितायै प्राथमिकता प्रदत्ता अस्ति। तस्य अनुसारं प्रश्नपत्रप्रसारणस्य अनुचितसाधनप्रयोगस्य च प्रकरणेषु कार्यवाही कृत्वा शताधिकाः जनाः कारागारे प्रेषिताः तथा पञ्चत्रिंशत्सहस्राधिकेभ्यः युवकेभ्यः सर्वकारीयसेवासु नियुक्तयः प्रदत्ताः सन्ति।
सः गृहवासव्यवस्थां, कृषिकार्यं, उद्यानकृषिं, लघुहोटलव्यवसायं स्थानीयोद्यमांश्च स्वरोजगारस्य प्रमुखान् माध्यमान् कथयित्वा उक्तवान् यत् पर्यटनं राज्यस्य अर्थव्यवस्थायाः महत्त्वपूर्णम् आधारम् अस्ति। तस्य अनुसारं चारधामयात्रायां, कांवडयात्रायाम् आदिकैलासे च वर्धमानाभिः गतिविधिभिः सीमावर्तिषु पर्वतीयक्षेत्रेषु च स्थानीयवृत्तेः अवसराः वर्धिताः सन्ति।
मुख्यमन्त्री राज्यसर्वकारस्य नीतिषु उल्लेखं कुर्वन् समाननागरिकसंहितां, धर्मान्तरणनिषेधकं विधानम्, दङ्गानिषेधकं विधानं तथा शिक्षाव्यवस्थायां कृतान् परिवर्तनान् अपि रेखाङ्कितवान्। सः उक्तवान् यत् सर्वकारस्य लक्ष्यं सीमावर्तीक्षेत्रेभ्यः पर्यन्तं मार्गस्य, रेलमार्गस्य, रज्जुमार्गस्य विमानसम्पर्कस्य च विस्तारं कृत्वा युवभ्यः स्थानीयस्तरे रोजगारस्य अवसरान् वर्धयितुम् अस्ति।
कार्यक्रमे लेखकः प्रसूनजोशी, प्रो. प्रदीपजोशी, अश्विनी लोहानी, प्रो. हर्षः वी. पन्तः, सुभाष धुलिया इत्यादयः विभिन्नक्षेत्रैः सम्बद्धाः प्रबुद्धजनाः उपस्थिताः आसन्। कार्यक्रमस्य सञ्चालनं प्रो. गोविन्दसिंहेन कृतम्।
Hindusthan Samachar / Dheeraj Maithani