‘प्रहार’ इति रणनीतिं थानास्तरपर्यन्तं प्रापयन्तु, अग्रिमदशवर्षेभ्यः सुदृढं आतंकवादविरोधितन्त्रं निर्मान्तु - शाहः
नवदिल्ली, २८ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः सोमवासरे आतंकवादविरोधिनीं ‘प्रहार’ इति रणनीतिं थानास्तरपर्यन्तं प्रापयितुं तथा आतंक-वादिनां घटनानां विश्लेषणस्य आधारेण अग्रिमदशवर्षेभ्यः सुदृढं दृढञ्च तन्त्रं विकसितुं बलं दत्तवान्।
केंद्रीय गृह मंत्री अमित शाह सोमवार को रिमोट का बटन दबाकर प्रत्यर्पण पोर्टल लॉन्च करते हुए


नवदिल्ली, २८ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः सोमवासरे आतंकवादविरोधिनीं ‘प्रहार’ इति रणनीतिं थानास्तरपर्यन्तं प्रापयितुं तथा आतंक-वादिनां घटनानां विश्लेषणस्य आधारेण अग्रिमदशवर्षेभ्यः सुदृढं दृढञ्च तन्त्रं विकसितुं बलं दत्तवान्।

नवदिल्ल्याम् ‘प्रहार- आतंकवादविरोधिनी नीतिः रणनीतिश्च’ इति विषये आयोजितस्य सम्मेलनस्य उद्घाटनं कुर्वन् शाहः अवदत् यत् आतंकवादविरोधिनः संरचनायाः प्रत्येकस्मिन् स्तरे स्वचालितप्रतिक्रिया-व्यवस्थायाः संस्थानीकरणस्य तथा कार्यवाहीयां कस्यापि प्रकारस्य विलम्बस्य निवारणाय सर्वासां सम्बन्धितानाम् अभिकरणानां मध्ये उत्तमसमन्वयस्य आवश्यकता अस्ति।

‘प्रहार’ भारतस्य राष्ट्रिय-आतंकवाद-विरोधिन्याः नीत्याः रणनीतेश्च रूपरेखा अस्ति, या गृहमन्त्रालयेन अस्मिन् वर्षे फेब्रुवरीमासे प्रस्तुता आसीत्। अस्याः उद्देश्यम् आतंकवादिनां आक्रमणानां निवारणं, आक्रमणस्य स्थितौ त्वरितप्रति-क्रियया दानम्, केन्द्रीयानां राज्यीयानां च अभिकरणानां क्षमतानाम् एकीकरणं तथा आतंकवादस्य वित्तपोषणं, आयुधानि, सुरक्षिताश्रयस्थलानि च प्रति आतंकवादिनां प्रवेशस्य निवारणाय समन्वितव्यवस्थायाः निर्माणमस्ति।

अस्याः रणनीतेः सप्त प्रमुखेषु स्तम्भेषु निवारणम्, प्रतिक्रिया, आन्तरिक-क्षमतानाम् एकीकरणम्, मानवाधिकाराः विधेः शासनञ्च, आतंकवादं प्रोत्साहय-न्तीनां परिस्थितीनां न्यूनीकरणम्, अन्ताराष्ट्रियप्रयासैः सह समन्वयः तथा सम्पूर्णसमाजस्य सहभागितया पुनर्बल-प्राप्तिः शिथिलत्वं च अन्तर्भवन्ति।

शाहः अवदत् यत् ‘प्रहार’ इत्यस्य प्रत्येकस्मिन् स्तम्भे परिणामोन्मुखरीत्या कार्यं कर्तुं आवश्यकता अस्ति। सः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः नेतृत्वे सर्वकारेण आतंकवादस्य सर्वेषां रूपाणां प्रकाराणां च विरुद्धं शून्यसहिष्णुतायाः नीतिः स्वीकृता अस्ति।

गृहमन्त्री अस्मिन् अवसरे नूतनं प्रत्यर्पण-पोर्टल् अपि प्रारब्धवान्। सः अवदत् यत् अनेन विदेशेषु स्थितानां पलायितानां अपराधिनां भारतं प्रति प्रत्यावर्तनस्य प्रयासेषु समन्वयः सुदृढः भविष्यति तथा प्रक्रिया द्रुता भविष्यति। सः राज्यीयारक्षक-बलानि केन्द्रीयाभिकरणैः सह समन्वयेन कार्यं कर्तुं विशेषदलस्य गठनं कर्तुम् अपि निर्दिष्टवान्।

शाहस्य अनुसारं सर्वकारेण २०१९ तः २०२६ पर्यन्तं ३६ देशेभ्यः २८८ भगोडाः अपराधिनः भारतं प्रत्यानीताः। सः अवदत् यत् अभिकरणानां उत्तमसमन्वयस्य परिणाम-स्वरूपं सीमापारि आयुधानां, विस्फोटकानां, मादकद्रव्याणां च तस्कर्यां संलग्नस्य शहजादभट्टी-जालस्य ४० तः अधिकानि तन्त्रांशानि ध्वस्तानि कृतानि। १५ राज्येषु १०० तः अधिकाः प्रथमसूचना-प्रतिवेदनानि पञ्जीकृत्य ३५० जनाः गृहीताः।

सम्मेलने केन्द्रीयगृहमन्त्रालयस्य सचिवः, विदेशसचिवः, केन्द्रीयसशस्त्राक्षकबलानां केन्द्रीयपुलिससङ्गठनानां च प्रमुखाः, १५ राज्येषु आरक्षकमहानिदेशकाः तथा सर्वेषां राज्यस्य केन्द्रशासितप्रदेशानां च आतंकवादविरोधिदलानां प्रमुखाः सम्मिलिताः। अन्येषां राज्येषु वरिष्ठाः आरक्षकाधिकारिणः दृश्यश्रव्यसम्पर्क-माध्यमेन सम्मिलिताः।

Hindusthan Samachar / Divya Ranjan