Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 28 सितंबरमासः (हि.स.)।
केन्द्रीयवित्तस्य निगमकार्याणां च मन्त्री निर्मला सीतारमण सोमवासरे दोहानगरं प्राप्तवती। कतारे भारतस्य राजदूतः श्रीकरकोप्पूलः हमाद-अन्तर्राष्ट्रीयविमानस्थानके सीतारमणस्याः स्वागतं कृतवान्। केन्द्रीयवित्तमन्त्री आगामीद्विदिनेषु दोहानगरे आयोजिते एशियाई-अवसंरचनानिवेशबैङ्कस्य एआईआईबी एकादशे वार्षिकोपवेशने तथा एआईआईबी निवेशकसंवादे २०२६ इत्यस्मिन् भागं ग्रहीष्यति।
वित्तमन्त्रालयेन सामाजिकमाध्यममञ्चे एक्स इत्यत्र सूचितं यत् अस्याः यात्रायाः समये सीतारमणा २८ सितम्बरतः दोहानगरे आयोजिते एशियाई-अवसंरचनानिवेशबैङ्कस्य शासकपरिषदः एकादशे वार्षिकोपवेशने सहभागिता करिष्यते। तत्सह सा एआईआईबी अध्यक्षेन सह तथा जॉर्डनस्य, स्विट्जरलैण्डस्य, अल्जीरियादेशस्य, सऊदी-अरबदेशस्य, नेपालस्य च स्वसमकक्षैः सह महत्त्वपूर्णानि द्विपक्षीयोपवेशनानि करिष्यति।
मन्त्रालयेन उक्तं यत् एआईआईबीस्य वार्षिकोपवेशने केन्द्रीयवित्तमन्त्री निर्मला सीतारमणा एशियाई-अवसंरचनानिवेशबैङ्के भारतस्य शासकरूपेण सहभागिता करिष्यति। भारतम् अस्य बैङ्कस्य द्वितीयः बृहत्तमः अंशधारकः अस्ति। तदतिरिक्तं आधिकारिकयात्रायाः भागरूपेण वित्तमन्त्री कतारसर्वकारस्य नेतृत्वेन सह भेटं करिष्यतीति तथा कतारीयव्यावसायिकनेतृभिः निवेशकैश्च सह संवादं करिष्यतीति अपेक्ष्यते।
उल्लेखनीयं यत् केन्द्रीयवित्तमन्त्री निर्मला सीतारमण वित्तमन्त्रालयस्य अधिकारिणां प्रतिनिधिमण्डलेन सह दोहानगरे एआईआईबीस्य एकादशे वार्षिकोपवेशने तथा एआईआईबी निवेशकसंवादे २०२६ इत्यस्मिन् भागं ग्रहीतुं त्रिदिवसीययात्रायै गता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani