खाद्यप्रसंस्करणेन वर्धिष्यते कृषकाणाम् आयः रोजगारस्य च क्षमता - केशवप्रसादमौर्यः
नोएडा, २८ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशव-प्रसादमौर्यः सोमवासरे अवदत् यत् उत्तरप्रदेशे खाद्यप्रसंस्करणस्य क्षेत्रे व्यापकाः सम्भावनाः सन्ति। प्रदेशः कृषिउत्पादनस्य क्षेत्रे सुदृढस्थितौ अस्ति तथा च अत्र विपुलमात्रायां शाका
केशव प्रसाद मौर्या


नोएडा, २८ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशव-प्रसादमौर्यः सोमवासरे अवदत् यत् उत्तरप्रदेशे खाद्यप्रसंस्करणस्य क्षेत्रे व्यापकाः सम्भावनाः सन्ति। प्रदेशः कृषिउत्पादनस्य क्षेत्रे सुदृढस्थितौ अस्ति तथा च अत्र विपुलमात्रायां शाकानि, फलानि अन्ये च कृषिउत्पादाः उपलब्धाः भवन्ति। एतेषां उत्पादानां स्थानीयस्तरे प्रसंस्करणं, संवेष्टनं विपणनं च कृत्वा कृषकाणाम् आयं वर्धयितुं शक्यते, रोजगारस्य उद्यमितायाः च नूतनाः अवसराः सृजितुं च शक्यन्ते। सः अवदत् यत् खाद्यप्रसंस्करणक्षेत्रं ग्रामस्तरात् जनपदस्तरं यावत् सुदृढं कर्तुं सर्वकारः प्रयत्नशीलः अस्ति।

सोमवासरे यू.पी. इन्टरनेशनल ट्रेड शो-२०२६ अन्तर्गतं ‘खाद्यप्रसंस्कर-णनीति-२०२३’ इत्यस्मिन् विषये आयोजिते विशेषसत्रे सम्बोधनं कुर्वन् उपमुख्यमन्त्री अवदत् यत् मण्डीषु विपुलमात्रायां कृषि-उत्पादाः आगच्छन्ति, किन्तु समुचित-प्रसंस्करणस्य भण्डारणस्य च व्यवस्था न भूत्वा बहुधा तेषां बृहत् भागः नष्टो भवति। यदि कृषिउत्पादानां समये प्रसंस्करणं क्रियेत, तर्हि खाद्यपदार्थानां अपव्ययं न्यूनीकर्तुं तथा च कृषकेभ्यः तेषां उत्पादानां उत्तमं मूल्यं प्रदातुं शक्यते।

सः अवदत् यत् खाद्यप्रसंस्करणं केवलं उत्पादनपर्यन्तं सीमितं नास्ति। अस्मिन् संवेष्टनं, विपणनं, परिवहनं, निर्यातः इत्यादिषु क्षेत्रेष्वपि बहवः अवसराः उपलब्धाः सन्ति। युवाः, महिला-उद्यमिन्यः तथा स्वयं सहायता-समूहाः अस्मिन् क्षेत्रे अग्रे आगत्य स्वकीयां आर्थिकस्थितिं सुदृढां कर्तुं शक्नुवन्ति।

उपमुख्यमन्त्री अवदत् यत् वैश्विकविपण्ये उत्तरप्रदेशस्य खाद्यउत्पादानां पहुँचं वर्धयितुं गुणवत्तायाः विषये विशेषं ध्यानं दातव्यम्। यूरोप-अमेरिकादेशयोः सहितेषु विश्वस्य प्रमुखविपण्येषु खाद्यउत्पादानां कृते निर्धारितानां गुणवत्तामानकानां पालनम् आवश्यकम् अस्ति। उद्यमिनः उत्पादस्य गुणवत्तायाः सह आधुनिकसंवेष्टनस्य विपणनस्य च विषये अपि ध्यानं दद्युः, येन प्रदेशस्य उत्पादाः अन्ताराष्ट्रियविपणीषु स्पर्धां कर्तुं शक्नुयुः। सः अवदत् यत् सर्वकारस्य विविधाभिः नीतिभिः योजनाभिश्च उद्यमिभ्यः आवश्यकं सहयोगं मार्गदर्शनं च प्रदीयते। जनपदस्तरे सम्बन्धितविभागानां अधिकारिणः सम्भावितान् उद्यमिनः योजनाभिः संयोजयितुं तथा उद्योगस्थापनाय साहाय्यं कुर्वन्ति। बैंकिङ्-वित्तीयसहायतासम्बद्धं मार्गदर्शनमपि प्रदीयते। कार्यक्रमे खाद्यप्रसंस्करणक्षेत्रे सम्बद्धैः उद्यमिभिः लाभार्थिभिश्च स्वानुभवाः सहभागी कृताः।

खाद्यप्रसंस्करणे निवेशस्य नवाचारस्य च प्रोत्साहनाय बलम् : बी.एल.मीणा

यूपीआईटीएस्-२०२६ मध्ये खाद्यप्रसंस्करणसम्बद्धे विशेषसत्रे सम्बोधनं कुर्वन् अपरमुख्यसचिवः बी.एल.मीणः अवदत् यत् उत्तरप्रदेशे खाद्यप्रसंस्करणक्षेत्रं कृषि-उत्पादनेन सह संयोज्य आधुनिकप्रौद्योगिक्याः, प्रसंस्करणक्षमतायाः, शीतशृङ्खलायाः निर्यातस्य च कृते व्यापकाः अवसराः सज्जीक्रियन्ते। सः अवदत् यत् प्रदेशस्य विभिन्नेषु जनपदेषु स्थानीयकृष्युपजं उत्पादांश्च केन्द्रे स्थापयित्वा नूतनाः खाद्यप्रसंस्करणकेन्द्राः विकसिताः भवन्ति। अनेन कृषकाणां उत्पादेभ्यः मूल्यवर्धितं स्वरूपं प्रदातुं शक्यते तथा रोजगारस्य उद्यमितायाः च अवसराः अपि वर्धन्ते।

सः उद्यमिभ्यः उपलब्धानां सर्वकारीय-योजनानां प्रोत्साहनानां च लाभं स्वीकृत्य आधुनिकप्रसंस्करण-विभागं स्थापयितुं तथा स्थानीयउत्पादान् राष्ट्रिय-अन्ताराष्ट्रियविपणीभ्यां संयोजयितुं आह्वानं कृतवान्। सः अवदत् यत् खाद्य-प्रसंस्करणक्षेत्रे निवेशस्य वर्धनेन प्रदेशस्य कृषि-अर्थव्यवस्था सुदृढा भविष्यति तथा कृषकेभ्यः आरभ्य उद्यमिपर्यन्तं सम्पूर्णायाः मूल्यशृङ्खलायाः लाभः भविष्यति।

Hindusthan Samachar / Divya Ranjan