Enter your Email Address to subscribe to our newsletters

तेहरानम्, 28 सितंबरमासः (हि.स.)।ईरानस्य विदेशमन्त्री अब्बासः अरागची अवदत् यत् तस्य देशः अमेरिकादेशेन सह पुनः युद्धस्य परिस्थितेः सम्मुखीकरणाय पूर्णतया सज्जः अस्ति, किन्तु तत्सह कूटनीत्याः माध्यमेन तनावं न्यूनीकर्तुं प्रयासमपि निरन्तरं करोति।
ईरानसर्वकारस्य अन्ताराष्ट्रियवार्ताजालस्य प्रेस् टीवी इत्यस्य अनुसारम्, अमेरिकीयवार्तासंस्थायै दत्ते साक्षात्कारे ईरानस्य विदेशमन्त्रिणा उक्तं यत् ईरानः कस्यापि नूतनस्य अमेरिकी आक्रमणस्य दृढतया प्रतिरोधाय सज्जः अस्ति, परिस्थितिः कियतीमपि गम्भीरसंघर्षस्य रूपं गृह्णातु। तेन सह सः अवदत् यत् ईरानः वार्तायै कूटनीत्यै चापि सज्जः अस्ति, अधुना निर्णयः अमेरिकी राष्ट्रपतिना डोनाल्ड् ट्रम्पेण करणीयः अस्ति।
अब्बासस्य अरागचिनः एषा टिप्पणी तासां वार्तानां मध्ये आगता, यासु प्रतिपाद्यः कृतः यत् ट्रम्पः अमेरिकी मध्यावधिकनिर्वाचनानन्तरं ईरानस्य विरुद्धं पुनः सैन्यकार्यवाहीं कर्तुं विचारयितुं शक्नोति। किन्तु अरागची अवदत् यत् ईरानस्य कृते अमेरिकी निर्वाचनापेक्षया स्वकीयाः राष्ट्रहिताः अधिकं महत्त्वपूर्णाः सन्ति।
ईरानीविदेशमन्त्री अब्बासः अरागची अवदत् यत् ईरानीप्रतिनिधिमण्डलेन अस्मिन् सप्ताहे न्यूयॉर्कनगरे संयुक्तराष्ट्रमहासभायाः समये आयोजितेषु उपवेशनिषु तथा वार्तामाध्यमानां साक्षात्कारेषु च होर्मुजजलडमरूमध्यस्य पुनः उद्घाटनाय कूटनीतिकप्रयत्नाः कृताः। तेन उक्तं यत् ट्रम्पस्य सन्देशाः “विरोधाभासपूर्णाः” अभवन्। अरागचिनः अनुसारं ट्रम्पः सार्वजनिकरूपेण ईरानस्य प्रस्तावं निराकृतवान् इति उक्तवान्, किन्तु मध्यस्थैः माध्यमेन तस्य निर्णयस्य आधिकारिकसूचना अद्यापि तेहरानं प्रति न प्रेषिता।
अब्बासः अरागची अवदत् यत् युद्धस्य समाप्त्यर्थं भवितव्यस्य सम्झौतेः अन्तर्गतं ईरानः होर्मुजजलडमरूमध्यं पुनः उद्घाटयितुं सज्जः अस्ति। तस्य विनिमये तेहरानं स्वस्य अवरुद्धानि धनानि सम्पत्तयश्च विमोचयितुम्, स्वस्य तैलस्य विक्रयस्य अनुमतिं च इच्छति। अरागचिनः अनुसारम् एताः ईरानस्य अपेक्षाः नवीनाः न सन्ति, अपि तु पूर्ववर्ती अमेरिकीप्रतिबद्धतानां भागः आसन्। तेन जूनमासे उभयोः देशयोः मध्ये सम्पन्नस्य सहमतिज्ञापनस्यापि उल्लेखः कृतः, यस्मिन् अस्थायियुद्धविरामस्य योजना उल्लिखिता आसीत्।
सः अवदत् यत् पाकिस्तानस्य मध्यस्थतया सम्पन्नं तत् सम्झौताज्ञापनं कतिपयेष्वेव दिनेषु विफलं जातम् तथा च ईरानस्य आरोपः अस्ति यत् अमेरिकादेशेन तस्मिन् सम्झौताज्ञापने निर्दिष्टाः स्वकीयाः दायित्वाः न निर्व्यूढाः।
ईरानीविदेशमन्त्री अब्बासः अरागची अवदत् यत् वर्तमानपरिस्थितिषु कूटनीत्यां पुनरागन्तुं ईरानस्य पुरतः कारणानि अल्पानि सन्ति, तथापि सः वार्तायाः प्रयासं करोति, यतः “शान्तेः कश्चिदपि अवसरः न हातव्यः” इति तस्य मतम्।
सः अवदत् यत् ईरानेन सैन्यक्षेत्रे, कूटनीतिकक्षेत्रे, आर्थिकक्षेत्रे च तथा अमेरिकीप्रतिबन्धानां सम्मुखीकरणस्य स्वकीयां क्षमतामपि विश्वस्य समक्षं प्रदर्शिता अस्ति। तत्सह सः पुनरपि अवदत् यत् सम्मानस्य न्यायस्य च आधारेण वार्ता तथा ईरानीजनानां अधिकाराणां याचनानां चानुबंधःएव अग्रे गमनस्य मार्गः अस्ति।
----------------
Hindusthan Samachar / Dheeraj Maithani